________________
[ ९ न० उल्लासः ]
काव्यप्रकाशः ।
दिभागों द्वितीयपादादिगत आग्रार्घादिभागे यम्यत इत्याद्यन्वमाश्रितमन्त्यार्धमादिर्यस्य स चासौ मागश्च । अन्त्यार्घादि इत्यादिशब्दात् तृतीयतुर्यपादग्रहः । द्वितीयपाद आदिर्येषां आदिशब्दात् तृतीयतुर्यपादग्रहः । द्वितीयपादादीन् गतमाश्रितमाद्यर्धमादिर्यस्य स चासौ भागश्च । अर्थादि इत्यादिशब्दात् तृतीयतुर्थांशग्रहः । तथा इत्यादि इति आदि-शब्दाद् द्विधाकृते पादे 5 प्रथमपादादिगताद्यर्धभागो द्वितीयपादादिगतान्त्यार्धभागे यम्यत इत्यन्वर्थाद् आद्यन्तकम् । तथा त्रिखण्डे पादे प्रथमपादगतादिवृतीयभागो द्वितीयपादादितान्त्यतृतीयभागे यम्यत इत्यन्वर्थः । तथा प्रथमपादादिगतमध्यांशो द्वितीयपादादिगतादिभागे यम्यत इत्यन्वर्थः । तथा प्रथमपादादिगतादिभागो द्वितीयपादादिगतमध्यभागे यभ्यत इत्यन्वर्थः । तथा प्रथमपादादिगतान्त्य- 10 भागो द्वितीयपादादिगतमध्यांशे यम्यत इत्यन्वर्थः । तथा प्रथमपादादिगतमध्यांशो द्वितीयपादादिगतान्त्यांशे यम्यत इत्यन्वर्थच गृह्यते । तेन क्रमाद् आद्यन्तकं मध्यादिकं आदिमध्ये अन्तमध्यं मध्यान्तकं च यमकं सिद्धम | अभेदमन्तादिकमिति वक्ष्यमाणभेदत्रयेऽन्ताद्योर्यमनात् सामान्येन संज्ञेयम् । विशेषवती त्वन्ताद्योः क्रमेण यमनाद् अन्तादिकमिति । आद्यन्तयोः 15 क्रमाद् यमनाद् आद्यन्तकमिति । तद्वययोगे तत्समुच्चय इति । केचित्तु 'अन्तादिकम् इति अन्तादिकाद्यन्तकतत्समुच्चयमध्यादिकादिमध्यादीनां सर्वेषामपि सामान्येन संज्ञेयम्' इत्याहुः । अन्ये तु अत्र लक्षणवाक्येऽशेषभेदसंग्रह परमादिशब्दत्रयं दृष्ट्वान्तादिकमित्यत्रापि अन्तादिकमित्यादिशब्दं संभावयन्ति, अन्तादिकमभृत्यशेष संज्ञास्वीकाराय । स च लेखकवैगुण्याद् 20 मूलपतौ भ्रष्ट इति मन्यन्ते । तत्र द्विखण्डे पादेऽन्तादिकभेदाः प्रथमपादान्त्यार्धस्य द्वितीयपादस्याद्यर्धेनावृत्तौ व्यस्ताख्यामन्तादिकं, यथा | तृतीयपादान्त्यार्धतुर्य पादाद्यर्धयोरैक्ये द्वितीयं व्यस्ताख्यं यथा । तद्वययोगे तृतीयसमस्ताख्यं, यथा # । द्वितीयपादान्त्यार्धस्य तृतीयपादाद्यर्धेनैक्ये तु
मध्याख्यं यथा | समस्तमध्ययोर्योगे पञ्चमं वंशाख्यं यथा
२३१
| 25