________________
२३०
काव्यादर्शनामसंकेतसमेतः [९ नं० डलासः | पादर्ज नवभेदम् । अर्यावृत्तिः श्लोकावृत्तिश्चेति द्वे । द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववद् द्वितीयादिपादादिभागेष्वन्तभागोऽन्तभागेष्विति विंशतिभेदाः। श्लोकान्तरे हि भागावृत्तिः। त्रिखण्डे त्रिशचतुष्वण्डे चत्वारिंशत् प्रथमपादादिगतान्त्याओं
समस्तपादनं यमकं प्रदर्श्य पादभागवृत्ति दर्शयितुमाह-द्विधा विभक्त इति । 5 प्रथमपादस्यादिभागः प्रथमपादस्याधींकृतस्य प्रथममधे द्वितीया पादादिमागेषु द्वितीयतृतीयतुर्यपादानामादिभागेष्वावय॑मानं क्रमाद् मुखसंदंशावृतिसंज्ञानि त्रीणि यमकानि करोति ।। पूर्ववदिति । समस्तपादावृत्तियमकक्रमेणेत्यर्थः । यथा
ENC:18:
C:: अन्तभाग इति अन्तभागेष्विति च पदे साकाङ्क्षत्वाद प्रथमपादशब्द द्वितीयादिपादशब्दं च यथाक्रममनुवर्तयतः, ततोऽत्रापि पूर्वोक्त- 10 नामक भेदत्रयमन्तभागावृत्तौ सत्यां लक्षितम्, यथा :) शेषं च पादस्यादिभागावृत्तिसत्कभेदसप्तकमन्तभागावृत्तिसत्कभेदसप्तकं च । इति-शब्देन प्रकारार्थेन मुच्यते, यथा :: एतानि गर्भसंदष्टकपुच्छपङ्क्तियुग्मकपरिवृत्तिसमुद्कसंज्ञानि क्रमेण । एवमन्तभागवृत्तेरपि सप्त भेदा द्रष्टव्याः। तदेवं द्विधा विभक्ते पादे पादस्यादिभागा- 15 वृत्यान्तभागावृत्त्या च प्रत्येकं दश दश यमकानि स्युः, उभयं विंशतिः, न द्वाविंशतिरित्याह-श्लोकान्तरे होति । भागावृत्तेः श्लोकान्तरेऽसंमतत्वात् ॥ त्रिखण्डे त्रिंशत् [इति] । आदिमध्यान्तरूपेषु त्रिभागेषु प्रत्येकं दशकस्य भावात् पूर्वोक्तसंज्ञानि त्रिंशद यमकानि । एवं चतुर्धा विभक्तेऽपि पादे आदिमध्यमध्यान्तरूपभागचतुष्टये प्रत्येकं दशकतया चत्वारिंशत् । आधभागं पादान्तरस्याघमागे 20 मध्यं मध्येऽन्त्यमन्त्ये एव भागे आवर्तयेद्-इत्युक्त्वा अन्यत्र देशे आवृत्ती यमकान्याह-प्रथमपादादिगतान्त्यार्धादिभाग इति । प्रथमपाद आदिर्येषामित्यादिशब्दाद् द्वितीयतृतीयपादयोग्रहः, न चतुर्थस्यापि पादचतुष्टयेनैव श्लोकस्य समासत्वात् । पञ्चमपादस्य चाभावात् नार्धात्तिरपि । प्रथमपादादीन् गत