________________
२१०
काव्यादर्शनाभसंकेतसमेत: [ ८ अ० उल्लासः ]
वर्गप्रथमतृतीयभ्यां तद्वितीयचतुर्थयो रेफेणाध उपरि उभयत्र यस्य कस्यचित्, तुल्ययोस्तेन तस्यैव संबन्धः टवर्गोऽर्थात् कारवर्जः शकारषकारौ " दीर्घसमासो विकटा संघटना ओजसः । उदाहरणं - 'मूर्ध्ना मुद्वृत्तकृत्ते 'त्यादि ।
श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणः स्मृतः ॥ ७६ ॥ समग्राणां रसानां" समासानां संघटनानां च । उदहरणम् - परिम्लानं पीनस्तनजघनसङ्गादुभयत
स्तनोर्मध्यस्यान्तः पैरिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्गयाः संतापं वदति बिसिनी पत्रशयनम् || ३४९॥ यद्यपि गुणपरतन्त्राः संघटनादयस्तथापि
वक्तृवाच्यप्रबन्धानामौचित्येन कचित्कचित् । रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ ७७ ॥ कचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । यथा
5
परतन्त्रा इति गुणेषु नियताः | संघटनादय इति । आदिशब्दात् पश्चा[दा]नुपूर्व्या मध्यवृत्त्यादयो गृह्यन्ते || अन्यथात्वमपीति । एतेषामन्यथाबन्धोऽपीत्यर्थः ॥
10
15
श्रुतीति । श्रुत्यैवार्थप्रतीतिहेतुत्वं शब्दानामिति: मूर्ध्नि कर्णान्त्यगककारादि'लघुरेफादिवर्णात्मनां असमाससमासवतामनुद्धतोद्धत संघटनाभाजां चेत्यर्थः ॥ साधारण इति व्यङ्ग्यत्वेनेत्यर्थः ॥ समग्राणामिति । स हि सर्वरससाधारणः सर्ववृत्तिसंघटना साधारणश्च ॥ ' परिम्लानम्' इति । स्मरज्वराद् अवाङ्मुखीभूय बिसिनी पत्रशयने लुठिता । तच गात्रान्तरसङ्गे म्लानं, स्तनजघनविश्रमपदे तु 20 परितः समन्तात् म्लानं तदेवोभयतः शब्दवाच्यम् । ' वदति ' इत्यनेन पत्रशयनस्य अचेतनत्वाद् बाधितमुख्यार्थेन प्रकाशादि लक्ष्यते । तस्य अस्फुटत्वं प्रयोजनं, तच्च अभिहितत्वेनेव प्रतीतेरप्रयोजन कल्पम् । कार्यमुखेन हि प्रतिपन्नः संतापो यथा चमत्करोति न तथाभिहितरूप इति गुणीभूतम् । माधुर्यौजः प्रसादव्यञ्जकेषु वर्णादिभिहितेषु उपनागरिका परुषा कोमलेति क्रमाद् वृत्तयो 25 वक्ष्यन्ते, तदव्यतिरिक्तस्वरूपत्वात् तासाम् ॥७४॥