________________
२०९
[ • अ० उल्लासः ] काव्यप्रकाशः।
तथा रेफणकारौ इस्वान्तरिताविति वर्णाः, समासाभावो मध्यमः समासो वेति समासः, तथा माधुर्यवती पदान्तरयोगे रचना माधुर्यस्य व्यक्षिका । उदाहरणम्अनङ्गरङ्गमतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः। कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तितीनि ॥३४८॥ 5
योग आद्यतृतीयाभ्यामन्त्ययो, रेण तुल्ययोः।
दादिः, शषौ, वृत्तिदैर्ध्य, गुम्फ उद्धत ओजसि ॥ ७५ ॥ तथेति । तत्प्रकारा माधुर्यानुगुणा घटना, माधुर्ये माधुर्यस्य व्यक्षिकेत्यर्थः ।
ननु लघुत्वं दीर्घत्वं च स्वरधर्मों अतः कथं लघुत्वं रणयोरित्याहहूस्वान्तरिताविति.। 'रण' इति, ‘णर' इति, 'रणु' इत्यादिना क्रमेण 10 इस्वान्तरितस्वोपनिबन्धे लघुत्वमनयोः कल्प्यते ॥
'भङ्गीभिः' इति, 'विलासस्य 'इति योगः । ' अङ्गीकृतम् 'इत्यत्र उत्तरार्धे 'यथा- शब्दप्रयोगात् .तथे "ति लभ्यते ॥ 'एता 'इति भायः । शान्तमपरस्य चिन्तनं येषु चित्तेषु । अत्र वर्णसमासरचनारूपं त्रयमपि विप्रलम्भे माधुर्यव्यअकम् । यथा वा
दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ।
न त्वेवं यथा-' अकुण्ठोत्कण्ठया पूर्णम् 'इति । अत्र शृङ्गारप्रतिकूला वर्णाः ॥ बाले मालेयमुच्चैन भवति गगनव्यापिनी नीरदानां
20 किं त्वं पक्ष्मान्तवान्तैर्मलिनयसि मुधा वक्त्रमथुप्रवाहैः । एषाथोद्वृत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा
दावाग्नेयोम्नि लग्ना मलिनयति दिशां मण्डलं धूमलेखा ॥ -अत्र दीर्घसमासः परुषरचना च शृङ्गारविरुद्धा ॥७२॥
योग इति। आधेन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णः, द्र-द-द्र इति 25. येनकेनचिद युक्तो रेफः ॥ तुल्ययोरिति । योग इति संबध्यते । तुल्यो वर्णों वर्णेन युक्त इत्यर्थः। एतद् व्याचष्टे-तेनेति । प्रथमेन प्रथमस्यैव तृतीयेन तृतीयस्यैव योगः ॥ अर्थादिति। माधुर्यगुणे णकारस्योपयुक्तत्वादित्यर्थः॥ ओजस इति । ओजसो व्यञ्जकाः ॥ ७३॥