________________
२०८
काव्यादर्शनामसंकेतसमेतः [८ अ० उल्लासः ] न पुनर्गुणः । कः खल्वनुन्मत्तोऽन्य प्रस्तावेऽन्यदभिदध्यात् । अर्थस्थायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम् , इत्यर्थदृष्टिरूपः समाधिरपि न गुणः ।
तेन नार्थगुणा वाच्याः वौच्या वक्तव्याः।
प्रोक्ताः शब्दगुणास्तु ये। वर्णाः समासो रचन। तेषां व्यञ्जकतामिताः ॥ ७३ ॥ के कस्येत्याह
मूनि वर्गान्त्यगाः स्पा अटवर्गा रणौ लघू। अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ ७४॥
टठडढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः, रणत्वात् । ततश्च अपदोषत्वमेतद्, न गुणाः ॥ एतदेव स्पष्टयन्नाह-कः खल्विति । विषमतां कोऽपि न बध्नात्येवेथः ॥ अर्थस्य दर्शनं समाधिकरणत्वात् समाधिः । अवहितं हि चित्तमर्थान् पश्यति । अर्थोऽपि द्विधाऽयोनिरकारणोञ्चधानमात्रकारणः । अन्यस्य काव्यस्य च्छाया 'अन्यछाया, ' तद् ‘योनि 'च। 15 क्रमाद् यथा
अप्रादपि मध्यादपि मूलादपि सर्वतोऽप्यशोकस्य । पिशुनस्थमिव रहस्यं यतस्ततो निर्गतं कुसुमम् ॥ आश्वपेहि मम सीधुभाजनाद् यावदप्रदशनैर्न दृश्यसे । । चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥ 20
अत्र 'मा भैः शशाङ्क मम सीधुनि' इत्यस्य च्छाया। सोऽपि न गुणः, इत्याह-अर्थस्येति ॥ ७० ॥
उपसंहारमाह-तेनेति । वाच्यशब्दोऽर्थे रूढ इति वक्तव्या इति व्याख्या कृता । छन्दोविशेषविशेष्या गुणसंपत्तिरिति केचित् । तथा हि स्रग्धरादिष्वोजः, इन्द्रवज्रादिषु समता, विषमवृत्तेष्वौदार्य, तच्च सव्यभिचारम् ॥ तेषा- 25 मिति । शब्दगुणानां माधुर्यादीनाम् । कर्मणि षष्ठी । वर्णवृत्तिगुम्फा व्यञ्जकतां प्राप्ताः ॥ ७१॥
_____ स्पर्शा वर्गाक्षराणि । कीदृशा वर्गान्त्यगाः स्ववर्गान्त्यं अमनम-लक्षणं गच्छन्त्याश्रयन्ति मूनि ये; अन्त्येन शिरस्याक्रान्ता इत्यर्थः ।।