________________
काव्यप्रकाशः।
[ ८ अ० उल्लासः ]
२०७ इति या पौढिः, ओज इत्युक्तं तद्वैचित्र्यमानं न गुणः । तदभावेऽपि कान्यव्यवहारमवृत्तेः। अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च साभिमायत्वरूपमोजः, अर्थवैमल्यात्मा प्रसादः, उक्तिवैचित्र्यरूपं माधुर्यम् , अपारुष्यरूपं सौकुमार्यम् , अनौम्यत्ववपुरुदारता च स्वीकृतानि । अभिधास्यमानस्वभावोक्त्यलंकारेण रसध्वनिगुणीभूतव्यङ्ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपार्थव्यक्तिः, दीप्तरसत्वरूपा कान्तिश्च स्वीकृते । क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषो
•ऽपि विचित्रत्वमात्रम् । अवैषम्यस्वरूपा समता दोषाभावमात्र, सोऽयममङ्गलरूपाश्लीलत्वदोषामावो, न गुणः । उक्तिविशेषो वासौ पर्यायो. 10 तालंकारविषयः ॥ अग्राम्यत्वमुदारता, यथा-' त्वमेवं सौन्दर्ये 'ति । अत्र एवं समग्रगुणानुगुण्ये यदि युवां संवसेतम्' इत्युच्येत तदा ग्राम्योऽयमर्थात्मा स्यात् । ततो ग्राम्यस्य दुष्टतामिधानाद् निराकरणेनोदारता स्वीकृता ॥ अर्थगुणो वस्तुनः स्फुटत्वमर्थव्यक्तिः । सोऽपि स्वभावोत्यलंकारः ।। दीप्तरसत्वं कान्तिः। दीप्ताः सम्यग्विभावानुभावव्यभिचारिभाजः, यथा 'प्रेयान् सोऽयमपा- 15 कृतः 'इति । व्यङ्गयरसत्वरूपेणैव सापि स्वीकृता ॥ क्रमेति । घटनारूपः श्लेषः । क्रमकौटिल्यानुल्बणत्वोपपत्तियोगश्च घटना । नेत्रनिमीलनादीनां क्रमः परिपाटी। कौटिल्यं वैदग्ध्यम् । तयोरनुल्बणत्वेनाग्राम्यत्वेनोपपत्त्या युक्ततया योजनं प्रलेषः। यथा-' ष्वैकासनसंगते प्रियतमे पधादुपेत्यादराद 'इति । अत्र 'इदं कृत्वा, इदं करोमि 'इति क्रमः। विच्छित्योभयोपभोगः कौटिल्यम् । 20 तयोश्च अनायासेनोपपत्तिः। अत्र एका निजत्वेन स्थितापरा तत्सखी प्रच्छन्ना। सोऽपि संविधानकभावं वैचित्र्यमात्रं, न गुणः ॥ अवैषम्येति । अर्थगुणोऽवैषम्यम् । समता क्रमाभेदश्चावैषम्यं यथा
च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमः
मनसि च गिरं प्रथ्नन्तीमे किरन्ति न कोकिलाः ॥ प्रक्रमभेदो यथा-- च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा दुमा
मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः ॥ मधुग्रीष्मर्तुप्रतिपादनपरेऽत्र द्वितीयपादे प्रक्रमभेदो, मध्यमस्तामसाधा
- 25