SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०६ काव्यादर्शनामसंकेतसमेतः [८ अ० उल्लासः ] वलिगतैः' इत्यादौ सिंहाभिधाने मसृणमार्गत्यागो गुणः । कष्टत्वग्राम्यत्वयोर्दुष्टताभिधानात्तनिराकरणेनापारुष्यरूपं सौकुमार्यम् , औज्ज्वल्यरूपा कान्तिश्च स्वीकृती । एवं न दश शब्दगुणाः । पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा । "व्याससमासौ च ॥ . रूपम् । प्रयोगमार्ग प्रति च सन्तः प्रमाणम् । न च ते सर्वत्र समतां वैचित्र्याय संगिरन्ते इति कचिद्दोषस्तस्मात् समता न वाच्येत्याह-तथा हि — मातङ्गाः 'इति । वाच्यवशाद् अत्र मसणमार्ग त्यक्त्वोदतमार्ग आश्रितः । मसृणमार्गनिर्वाहे तु दोषः स्यात् ॥ दोषत्यागादाह-कष्टस्वेति ॥ बन्धस्याजरठत्वं सौकुमार्य यथा- . हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । . 10 भुजे शचीपत्रलताक्रियोचिते स्वनामचिहं निचखान सायकम् ॥ सोऽयं श्रुतिकटुत्वदोषाभावो न गुणः ॥ औज्ज्वल्यं चमत्कारकारिपदारब्धत्वं कान्तिः, यदभावे पुराणीव बन्धच्छायेति व्यपदिशन्ति यथा-- स्त्रीणां केतकगर्भपाण्डुसुभगच्छेदावदातप्रमे मन्दं कुड्मलिताः कपोलफलके लावण्यविस्पन्दिनि । अन्याङ्कामपि कामनीयककलामातन्वते नूतनां शीतांशोर्बिसकन्दकन्दलशिखामुग्धश्रियो रश्मयः ॥ अत्र 'शुक्ले 'इत्यादिवाच्ये ' केतके'त्याधुक्तं, सोऽयं ग्राम्यत्वदोषाभावो, न गुणः ॥ अथार्थदोषान् कांश्चिद् दूषयन् कांश्चित्त्वङ्गीकुर्वनाइ-पदार्थ इति । 20 पदार्थे वाक्यवचनं, यथा-' अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः' । अत्र चन्द्रपदवाच्येऽर्थे ' नयनसमुत्यं ज्योतिरत्रेः 'इति वाक्यं प्रयुक्तम् ॥ वाक्यार्थे पदाभिधा यथा-'दिव्येयं न भवति किं तर्हि मानुषी 'इति वाच्ये 'निमिषति' इत्युक्तम् । अस्य च वाक्यार्थस्य व्याससमासौ ज्ञेयौ, साभिप्रायरूपं चौजोऽपुष्टार्थदोषाभावमात्रं, न पुनर्गुणः । अर्थगुणस्तु वैमल्यं प्रसाद इति । प्रयोजकपद- 25 परिग्रहो हि वैमल्यं, तचाधिकपदत्वदोषनिराकरणात् स्वीकृतम् । उक्तेः सकाशाद् अर्थस्य वैचित्र्यं माधुर्यमप्यर्थगुणोऽनवीकृतत्वदोषाभावो, न गुणः, यथोदाहृतं 'यदि दहति 'इति । अत्र 'किमद्भुतम् ' इत्यादिभङ्गीभिरुक्तत्वाद् माधुर्य स्वीचकार । अपारुष्यं सौकुमार्य यथा-'मृतं यशःशेषम्' इत्याहुः । 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy