________________
["८ अ० उल्लासः ]
कार्व्यप्रकाशः ।
बहूनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः, यश्वारोहाadeक्रमरूपः समाधिः, या च विकटत्वलक्षणोदारता, यथौजोमिश्रितशैथिल्यात्मा प्रसाद:, तेषामोजस्यन्तर्भावः । पृथक्पदत्वरूपं माधुर्य भङ्गया साक्षादुपात्तम् । प्रसादेनार्थव्यक्तिर्गृहीता । मार्गाभेदरूपा समता कचिद्दशेषः । तथा हि- 'मातङ्गाः किमु कवीनामभिधेयं प्रति त्रयः पन्थानो यदुत न्यूनमुत्कर्षन्ति, अधिकमपकर्षन्ति, यथार्थ वस्तु स्थापयन्ति, तत् कथमिवायं गुण इति दण्डी || तस्मात् समास भूयस्त्वमोजः, तच्च गद्यविभूषणं प्रायेण । वृत्तवर्त्मन्यपि गौडास्तदाद्रियन्ते । तत्रयेऽप्योजसः साधारणत्वाद् गौडीयानिर्देशो न युक्तस्तस्माद् गाढत्वमोज इति वामन: । ओजसि हेत्वन्तरमवमृश्यतां न पुनर्गाढत्वं शुद्धमोजः, 10 तस्माद् उक्तमोजोळक्षणं श्रेयः ॥ तस्मिन्नेव केचिद् गुणा अन्तर्भवन्ति - इत्याह बहूनामिति । यद् वामनः ' यस्मिन् सति बहून्यपि पदानि एकपदवद् भासन्ते || ' सलियत्यनेन पदं पदान्तरेण मसृणतयेति श्लेषः, यथा ' अस्त्युत्तरस्याम् 'इति । आरोहपूर्वोऽवरोहः समाधिः, यथा 'निरानन्दः कौन्दे मधुनि परिभुक्तो - ज्झितरसे ॥' यस्मिन् सति नृत्यन्तीव पदानीति वर्णना स्यात्, तद् विकटत्वं यथा
1
15
स्वचरणविनिवेष्टैर्नू पुरैर्नर्तकीनां
झणितिरणितमासीत्तत्र चित्रं कलं च ॥
गाढत्वसंप्लुतं शैथिल्यं प्रसादः, स त्वनुभवसिद्धः । यदाहकरुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः ।
यथानुभवतः सिद्धस्तथैवोजः प्रसादयोः ॥
२०५
पृथक्पदेति । — बहुशो यच्छ्रुतममिहितं वा वाक्यमनुद्वेजकं मनसस्तन्मधुरम् ' इति भरत: । ' दयितजनरूक्षाक्षराक्षेपवचनेऽपि तत्समानमिति पृथक्पदस्वं माधुर्यम् ' इति वामनः । अर्थव्यक्ति हेतुत्वमर्थ व्यक्तिः, यत्र पुरस्तादिव वस्तुनोवगतिः पश्चादिव वाच्यं सार्थव्यक्तिः । यथा
महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥ सोऽयमुक्तयन्तराभिहितः प्रसाद एव ॥ मार्गेति । येन मार्गेण मसृणोद्धतमध्यमरूपेण रीतिविशेषेणोपक्रम स्तस्यापरित्याग आसमाप्तेरिति समताया
5
20
25