________________
२०४
काम्यादर्शनामसंकेतसमेतः [८ अ० उल्लासः ) रचनासु च।
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ ७१॥ __ गुणवृत्त्या-उपचारेण, तेषां गुणानामाकारे शौर्यस्येव । कुतस्त्रय एव न दशेत्याहकेचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः।
5 अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥७२॥ रचनासु चेति । रचना शब्दगतार्थगता च समस्तासमस्ता च । यदुक्तम्
असमासा समासेन मध्यमेन तु भूषिता । तथा दीर्घसमासेति त्रिधा संघटनोदिता ॥
तत्र साधारणः प्रसादो हि गुणो व्यापी। तदभावे हि असमासापि 10 रचना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपरित्यागे तु मध्यमसमासापि व्यनक्त्येव, अत एव 'यो यः शस्त्रं बिभर्ति 'इत्यादौ यदि ओजसः स्थितिनिप[]ते तत्मसाद एव गुणो, न माधुर्यम् । न चाचारुत्वमभिप्रेतरसप्रकाशनात् ।। एवं शृङ्गारकरुणविप्रलम्भशान्तविषयं माधुर्य, वीरबीभत्सरौद्रादिविषयभोजः, सर्वत्र तु प्रसाद इति स्थितम् ॥ ____ गुणवृत्त्येति । मुख्यवृत्या तु रसे एव गुणानां वृत्तिः। रसस्यैव माधुर्यादयो गुणाः, उपचारेण तु शब्दार्थयोः ॥६॥
दोषत्यागादिति । प्रागुक्तदोषपरिहारेण केचिल्लब्धाः ॥ अयं भावः। माधुयौंजःप्रसादा एव गुणाः, ते च मुख्यवृत्या रसस्यैवेति शब्दार्थाश्रयत्वेन, अन्येऽपि यत् कैश्वन प्रतिपाद्यन्ते तद् न युक्तम् । तथा हि - 'ओजःप्रसाद- 20 श्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणा दश 'इति केचित् । तत्रावगीतस्य होनस्य वा वस्तुनः शब्दार्थसंपदा यदुदात्तत्वं निषिश्वन्ति कवयस्तद् ओज इति भरतः । अनवगीतस्याहीनस्य वा वस्तुनः शब्दार्थयोरर्थसंपदा यदनुदात्तत्वं निषिश्चन्ति कवयस्तर्हि तद् अनोजः स्यादिति . मङ्गलः । यथा
ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो
येऽप्येते धनलोलसं कुलधियस्तेषां तु दूरे नृणाम् । धिक् तं कस्य कृते कृतः स विधिना तादृक् पदं संपदा
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥
15
'25