________________
[ ८ अ० उल्लासः] काव्यप्रकाशः ।
२०३ एषां क्रमेण लक्षणमाह--
आह्वादकत्वं माधुर्य शृङ्गारे ग्रुतिकारणम् ॥ १८ ॥
शृङ्गारे अर्थात्-संभोगे । द्रुतिर्गलितत्वमिव । श्रव्यत्वं पुनरोजःप्रसादयोरपि।
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । .. 5 अत्यन्तद्रुतिहेतुत्वात् ।
दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ६९ ॥ चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः। बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।
- वीराद्वीभत्से ततोऽपि रौद्रे सातिशयमोजः।
10 शुष्कन्धनाग्निवत्स्वच्छजलवत्सहसैव यः॥ ७०॥
व्यामोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः। . अन्यदिति व्याप्यमिह चित्तम् । सर्वत्रेति सर्वेषु रसेषु सर्वासु अर्थादिति । विपलम्भो हि वक्ष्यमाणसूत्र एवोक्तस्तिष्ठतीति संभोग इत्युक्तम् । शृङ्गारस्य च ये हास्याद तादयो रसा अङ्गानि तेषामपि माधुर्य गुणः ॥ श्रव्य- 15 त्वमिति । 'श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते' इति भामहोतं माधुर्यलक्षणमोजाप्रसादयोरप्यस्तीति सजातीयव्यावृत्त्यभावाद् न तल्लक्षणं माधुर्यस्य । . यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां
यो यः पञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपं
20 क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ।। -इत्यादौ रौद्रादिष्वोजस्यपि श्रव्यत्वमसमस्तत्वं चास्त्येवेति भावः॥६६॥
संभोगशङ्गाराद् मधुरतरः करुणस्ततोऽपि विप्रलम्भस्ततोऽपि शान्त इत्यभिमायेणाई-करुण इति । च-शब्द: क्रममाह ॥
ओजोलक्षणमाइ-दीप्त्येति । दीप्तिः प्रतिपतुहृदये विकासविस्तारमज्व 25 सनस्वभावा आत्मा स्वरूपं यस्य चित्तस्य तस्य विमृतेः कारणम् ॥६७॥
. हृदयसंवादेन प्रतिपत्तॄणां शुष्ककाष्ठाग्निदृष्टान्तेन चेतसो व्यापकं प्रासादं नाम सर्वरसानां गुणमाह-शुष्केति । यद् भामहः
· आविद्वदङ्गनाबालप्रतीतार्थ प्रसादवत् ।।