________________
-[ ८ ० उल्लास ]
काव्यप्रकाशः ।
मन्यायस्तार्णवाम्भःप्लुतिकुहरवलैन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्पलयघनघटान्योन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदृत्तः कुरुकुलनिधनोत्पातनिर्घातवातः
२११
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयँम् ॥ ३५० ॥ अत्र हि न वाच्यं क्रोधादिव्यञ्जकम् । अभिनेयार्थ च काव्यमिति तत्प्रतिकूला उद्धत रचनादयः । वक्ता चात्र भीमसेनः ।
क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रचनादयः । यथा— प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात
त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् ।
कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कंधरारन्ध्रभाजां
भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ३५१ ॥ कचिद्रवाच्या पेक्षाः प्रबन्धोचिता एव ते । तथा हिआख्यायिकायां शङ्कारेऽपि न मसृणा वर्णादयः । कथायां रौद्रेऽपि
5
10
वाच्यमिति दुन्दुभिताडनलक्षणम् । तथाभिनेयार्थे च काव्ये नोद्धता 15 रचनादयो निबन्धनीयाः, तथापि भीमस्य वक्तुरौचित्याद् अत्र अभिनेयार्थेऽपि काव्ये उद्धता रचनादय इत्यर्थः ॥
'प्रौढे 'ति । अत्र वक्ता मध्यम एव, नोद्धतः, तथापि वाच्यस्य कुम्भकर्ण'वृत्तान्तस्यैौचित्याद् उडता रचनादयः ॥
आख्यायिकायामिति । विकटबन्धप्रधानानागतार्थशंसिवक्त्रा परवक्त्रादिनो- 20 च्छ्वासादिना संस्कृतगद्येन च युक्ता आख्यायिका, यथा हर्षचरितादि । हर्षस्य चरितमिति तत्पुरुषो, बहुव्रीहौ त्वन्यपदार्थे वाच्ये स्त्रीत्वप्राप्तिः । अभिधेयेन चाभिधायकमपि कवयो व्यपदिशन्ति, यथा अभिज्ञानशकुन्तला नाटकं कुमारसंभवः काव्यम् || न मसृणा इति । गद्यस्य विकटबन्धाश्रयेण च्छायावत्त्वात्, भूम्ना च मध्यम समासा - दीर्घसमासे एव संघटने || कथायामिति । सुकुमाररचनाप्राया 25 गधेन पद्येन वा सर्वभाषा धीरशान्तनायका कथा, यथा कादम्बरी, पद्यमयी लीलावती । एकं धर्मादिपुरुषमुद्दिश्यानन्तवृत्तान्तवर्णनप्रधाना शूद्रकादिवत् परिकथा ॥ मध्याद् उपान्ततो ग्रन्थान्तरतः सिद्धमितिवृत्तं यस्यां वर्ण्यते सा स्वण्डकथा || सर्वफलान्तेतिवृत्तवर्णनमधाना सकलकथा || एकचरिताश्रयेण