________________
१९५
[७ स० उल्लासः ] काव्यप्रकाशः।
__ माक्पतिपादितरूपस्य रसस्य रसान्तरेण न विरोधोः नाप्यप्राङ्गिभावो भवतीति रसशन्देनौत्र तत्स्थायिभाव उपलक्ष्यते ।
काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः ॥ ७ ॥
अनित्यतां प्रकाशयता व्यासेन मोक्षलक्षण एवैक 'स्वाद-योगाभावे पुरुषेणा- 5
र्थ्यते' इति पुरुषार्थः शास्त्रनयेन काव्यनयेन च तृष्णाक्षयसुखपरिपोषलक्षणश्चमत्कारयोग्यत्वेन शान्तरसव्यपदेश्यो महाभारतस्याङ्गित्वेन विवक्षितः, ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणश्च पुरुषार्थः पुरुषार्थान्तरेस्तदङ्गत्वेनानुगम्यते । साररूपश्चायमों व्यङ्गयत्वेन दर्शितो, न वाच्यत्वेन ॥ एवं रामायणेऽपि 'शोकः श्लोकत्वमागतः' इत्येवंवादिना मुनिना करुणो रसः सूचितः, स एव सीतात्य- 10 न्तवियोगपर्यन्तमङ्गीकृतः ॥
उपसंहरबाह-प्राक्प्रतीति ॥ रसशब्देनेति । रसानां स्थायिनो भावा उपचाराद् रसशब्देनोक्ताः सूत्रे रसीकरणयोग्यत्वात् । तेषामझत्वे निर्विरोधत्वमेव, ततो रसानां स्थायिसंचारिभावेनाङ्गाङ्गितापि युक्तैवेति भावः । एतेनबहूनां समवेतानां रूपं यस्य भवेद् बहु ।
15 स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः ॥ .. . इति मतं स्वीकृतम् ॥ ६३ ॥
येषां ताण्डवमाधत्ते चित्ताध्वनि रसध्वनिः।
त एवास्य सुवर्णस्य परीक्षाकषपट्टकाः ॥ .' इति भट्टसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते सप्तम उल्लासः॥ 20