________________
अथाष्टमोल्लासः । एवं दोषानुक्त्वा गुणालंकारविवेकमाह
ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ ६६ ॥
आत्मन एव हि यथा शौर्यादयो नाकारस्य यथा तथा रसस्यैव 5 माधुर्यादयोन वर्णानाम् । कचित्तु शौर्यादिसमुचितस्याकारमहत्त्वादेर्दर्शनादाकार एवास्य शूर इत्यादेर्व्यवहारादन्यत्राशूरेऽपि वितताकृतित्वमात्रेण शूर इति, कापि शूरेऽपि मूर्तिलाघवमात्रेणाशुर इति, अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरा'दिव्यञ्जकमुकुारवर्णानां माधुर्यव्यवहारमवृत्तेरमधुरादिरसाशानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि, मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि, रसपर्यन्तविश्रान्तिमतीतिवन्ध्या व्यवहरन्ति । अत एव माधुर्यादयो रसधर्माः समुचितैर्वण. य॑ज्यन्ते न तु वर्णमात्राश्रयाः। यथेषां व्यक्षकत्वं तथोदाहरिष्यते।
'शब्दार्थों सगुणौ सालंकारौ च काव्यम् 'इत्युक्तं, तत्र गुणालंकारयो रसोत्कर्षहेतुत्वं सामान्य लक्षणं प्रतिपादयन् विवेकमिति भेदमाह-ये रसस्येति । यथा शौर्यादयो धर्माः समवायवृत्त्या आत्मन एव, तथा रसस्यैव माधुर्यादयो धर्माः। तहि कथं 'मधुरा वर्णाः' इति व्यवहार इत्याह - कचित्त्विति । आकार एवास्य शूर इति । यथा शौर्यमुपचारात् तदभिव्यञ्जके शरीरे लोका 20 व्यवहरन्ति तथा वर्णेषु माधुर्यादयः। मधुररसाभिव्यञ्जकेषु वर्णेखूपचरितं माधु. यमित्यर्थः । अमधुरादिश्चासौ रसश्च । तदङ्गानामपि वर्णानां माधुर्यादिरहितानामपि सौकुमार्यादिमात्रेण माधुर्यादि, असौकुमार्या दिमात्रेण चामाधुर्यादि वामनादयो व्यवहरन्ति । न तु वर्णमात्रेति । रसपर्यवसायिनां माधुर्यादीनां रस एवाश्रय इत्यर्थः । यदुक्तम्
25 तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलंकारा मन्तव्या कटकादिवत् ।। एषामिति वर्णानाम् ॥ ६४॥
.
15