________________
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] जिनस्य । यथा वा परः शृङ्गारी तदवलोकनोत्सस्पृहस्तद्वदेत.
शा मुनय इति साम्यविवक्षा। क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तः सदर्भाः स्थलीः
पादैः पातितयावकैरिव पतद्वाष्पाम्बुधौताननाः । भीता मकरावलम्बितकरास्त्वच्छत्रुनार्योऽधुना।
दावानि परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ३३९ ॥ अत्र चाटुके राजविषया तिर्या प्रतीयते तत्र करुण इव क्षारोऽप्यमिति तयोर्न विरोधः । यथाएहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति निनोऽथिभिः५ ॥३४॥ 10.
अत्र, एहीति क्रीडन्ति, गच्छेति क्रोडन्तीति क्रीडनापेक्षयो. रागमनगमनयोने विरोधः ।
पर इति । दन्तक्षतयुक्तकामुकव्यतिरिक्तः तदवलोकनात् कामुकदन्तक्षता दिदर्शनात् ॥ एतद्दृशेति । जिनदन्तक्षतादिदर्शनेन । अत्र शृङ्गारतुल्यत्वेन शान्तो विवक्षितः। परस्परविरोधिनोरपि रसयोर्भावयोर्वाडिगनि भावे रसे वागभावप्राप्तौ 15 न दोषो यथा 'क्रामन्त्य 'इति । हेमानिधूमकृतं बाष्पाम्बु, यदि वा बन्धुगृहत्यागदुः खोद्भवम् । भयं कुमारीजनोचितः साध्वसः। अनभ्यस्तगमनतया भयविशंस्थुलगतितया च विवाहे रिग्निपदक्षिणनिमित्तं च भर्तकरावलम्बनम् ॥ करुण इति । रतेरबिन्या करुणशृङ्गारौ अङ्गमिति न विरोधः । ___ननु, अन्यपरत्वेन स्थितयोविरोधिनोः कथं निर्विरोधत्वं, स्वभावस्या- 20 न्यपरत्वेऽप्यनिवर्तनात् । सत्यम् , तदैव तदेव कुरु मा कार्षीरितिवद् एकदा प्राधान्यलक्षणे विरुद्धसमावेशस्य दुष्टत्वं, नानुवादेऽन्याङ्गतालक्षणे, इत्याह - यथा - 'एहि गच्छ 'इत्यादौ । आगमनगमनयोविरुद्धयोरपि क्रीडाङ्गत्वेनानूधमानयोः समावेशे सति न विरोधः । 'तद्वक्त्रामन्त्य' इत्यादावपि करुणशृङ्गारयोरनूद्यत्वं, रतेरेव प्राधान्येन वाक्यार्थत्वात् । विरुद्धानामपि अन्यमुखपेक्षित्वेन 25 परतन्त्रीकतानां स्वात्मपरामर्शऽपि अविश्राम्यतां का कथाऽन्योन्यरूपचिन्तायां येन विरोधः स्यात् ॥
ननु प्रधानतया यद् वाच्यं तत्र विधिः. अप्रधाने तु वाच्ये अनुवादो, न च रसस्य वाच्यत्वमिति रसेषु विध्यनुवादव्यवहारो नास्तीति । सत्यम् ।