________________
१८९
[.७ स० उल्लासः ] काव्यप्रकाशः ।
पाण्डु क्षामं वक्त्रं हृदयं सरसं तवालसं च वपुः ।।
आवेदयति नितान्त क्षेत्रियरोग सखि हृदन्त ॥३३२।। इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धत्वम् ।
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥३३३॥ इत्यत्राधमर्धे बाध्यत्वेनैवोक्तम् । जीवितादप्यधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धतदगुणोपमानतयोपात्तं शान्तमेव पुष्णाति। न पुनः शङ्गारस्यात्र प्रतीतिस्तदङ्गापतिपत्तेः। न तु विनेयोन्मुखीकरणमत्र परिहारः । शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात् । नापि काव्यशोभाकरणम् । रसान्तरादनुमासमात्राद्वा तथाभावात् ।
10 रोधिन्यपि करुणे ये व्याध्यादयो व्यभिचारिणः सर्वथाङ्गत्वेन दृष्टास्तेषां साधारणत्वादिना तदङ्गभावं प्राप्तानामप्युक्तिरदोषा, यथा 'पाण्डु 'इति ॥ सरसमिति । क्षामं सस्नेहं च । अन्यस्मिन् क्षेत्रे चिकित्स्यो देहान्तरे निवार्यः; इयप्रत्यये क्षेत्रियो राजयक्ष्मा; उपपतिश्च स एव रोगस्तचिन्तोत्था पोडा च ।। साधारणत्वमिति । पाण्डुतादयो हि राजयक्ष्मत उपपतिचिन्तातश्च स्युरिति करुण 15 विप्रलम्भयोः साधारणाः । अत्र करुणस्यैवाङ्गभूतः पाण्डुरोगः श्लेषभङ्गयारोपितः, अत एव च शृङ्गारस्याङ्गतामिव गतः साधारण्याद् न दुष्टः ॥
सत्यमिति । परहृदयानुपवेशेनोक्तिन खल्वलीकवैराग्यं प्रकटयामः, किं तु.यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं जीवितं चञ्चलमिति शान्तविभावः समस्तानित्यत्वरूपः ॥ प्रसिद्धति । प्रसिद्धेन तेन गुणेनास्थिरत्वलक्षणेन या उपमा- 20 नता तया ॥ उपात्तमिति । द्वितीयमर्धमपाङ्गभङ्गोषमानेन जीवितस्यास्थिरता प्रतिपादयत् बाधकत्वेनोपात्तमित्यर्थः । शाब्या वृत्त्या यद्यप्युपमानत्वमस्थिरत्वगुणविशिष्टेऽपाङ्गभङ्ग एवोपमानत्वेनात्र विवक्षितस्तस्यैव तद्गुणविशिष्टस्योपमानतोपपत्तेः । ध्वनिकारस्तुविनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा ।
25 तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ इति शृङ्गारेण विनेयानभिमुखीकृत्य ‘पश्चाच्छान्ते पर्यवसान' मिति विरोधपरिहारमाहेत्याशङ्कयाह - न तु विनेयेति ॥ अभावादिति । शृङ्गारस्यापतीते: फयोनॆरन्तयं स्यादिति भावः ॥ रसान्तरादिति । अत्रैव श्लोके शान्तलक्षणाद्