SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेत: [ ७ स० उल्लासः ] लवणो रसमयः सुरोदकः सार्पिषो दधिजलः पयःपयाः । स्वादुवारिरुदधिश्व सप्तमस्तान् परीत्य त इमे व्यवस्थिताः ॥ ते च समुद्रास्त्रयश्चत्वारः सप्त वेति कविसमयः ॥ मध्ये जम्बूद्वीपं काञ्चनो मेरुस्तस्य च दक्षिणेन हरिवर्षे किंपुरुषं भारतं चेति त्रीणि वर्षाणि । तत्रेदं भारतं वर्षमन्त्यम् । तस्य च नव भेदा: - इन्द्रद्वीपः कसे [ रू] मांस्ताम्रपय गभस्तिमान 5 arati ra वरुणः कुमारीद्वीपश्च । पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्चान्तरमार्यावर्तः । तत्र चातुर्वर्ण्य, तन्मूलः सदाचारः । तत्रत्यो व्यवहारः प्रायः कवीनाम् । तत्र वाराणस्याः पुरतः पूर्वदेशः, यत्र अङ्गकलिङ्गका सलतोसलोत्क लमगधमुद्ररक विदेह नेपाल पुण्ड्रप्राग्ज्योतिषतामलिप्त सुब्रह्म [ ? ह्म] ब्रह्मोत्तरादयो जनपदाः, बृहद्गृहलोहितगिरिचकोर दर्दुरने पालकामरूपादयोऽद्रयः, शोणलोहितौ 10 दौं, गङ्गाकरतोयाकपिमा [? शा]धाच नद्यः, लवलीग्रन्थिपर्णका गुरुद्राक्षाकस्तूरिकादीनामुत्पादः ॥ माहिष्मत्याः परतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्म काश्मकवैदर्भ कुण्डल क्रथकैशिक सूर्पारक केरलका वेरमुरलवानवासिकसिंहल[? चो] डदण्ड क पाण्डचपल्लवगाङ्गनासिक्य कोङ्कणकोल्लगिरिचेरल्लादयो जनपदाः, विन्ध्यदक्षिणपादमहेन्द्रमलय मेकलसा श्रीपर्वतादयोऽद्रयः, नर्मदातापीपयोष्णीगोदावरीकावेरी - 15 भैमरथीवेणी कृष्णवेणीवञ्जुरातुङ्गभद्राताम्रपर्ण्यपलावतीरावणगङ्गाद्या नद्यः ॥ देवसभायाः परत पश्चाद्देशः । तत्र देवसभसुराष्ट्रदा सेरकत्रवणभृगुकच्छकच्छीयानर्ताबुदब्राह्मणवाहयवनादयो जनपदाः, गोवर्धन गिरिनगर देवसभमाल्यशिखराबुदादयः पर्वताः, सरस्वतीश्वभ्रवतीवार्त्रघ्नीमहीहिडिम्बाधा नद्यः, करीरपीलुगुग्गुलुखर्जूरकरभादीनामुत्पादः ॥ पृथूदकात्परत उत्तरापथः । यत्र शककेकय- 20 हूणवानायुजकम्बोज बाडीकल स्पाककुभूत कीरतङ्गणतुवा रतुरुष्कवर्व र रमठह र हूरादयो जनपदाः, हिमालयजालन्धर कलिन्देन्दु कीलचन्द्राचलादयोऽद्रयः, गङ्गासिन्धुसरस्वतीशतहूदाचन्द्रभागा यमुनैरावती वितस्ता विपाशा कुहूदेविकाद्या नद्यः, सरलदेवदारुद्राक्षाकुङ्कुमचमरा जिन सौवीरस्रोताञ्जनसैन्धत्रवैदूर्याश्वानामुत्पाद: । तेषां मध्ये मध्यदेश इति कविसमयः ॥ यदाहु: 25 हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यमेव प्रयागाच्च मध्यदेशः स कीर्तितः ॥ तत्र देशपर्वतनद्यादीनामुक्तक्रमेण निबन्धः । कालः काष्ठादिभेदभिन्नः । R तथा च-
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy