________________
10
'काव्यादर्शनामसंकेतसमेतः [७ स. उल्लास ) तामनङ्जयमङ्गलश्रियं किंचिदुच्चभुजललोकिताम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ॥३२२॥
आलोक्य कोमलकपोलतलाभिषिक्त
व्यक्तानुरागमुभगामभिरामरूपाम् । पश्यैष बाल्यमतिवृत्त्य विवर्तमान:
शृङ्गारसीमनि तरङ्गितमातनोति ॥३२३॥ स्थायिनो यथा
संग्रहारे पहरणैः महाराणां परस्परम् । टणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥३२४॥ अत्रोत्साहस्य । कर्पूरधूलिधवलघुतिपूरचौत
दिमण्डले विभिररोचिषि तस्य यूनः । लीलाशिरोशुकनिवेशविशेषतृप्ति- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥३२५॥
'कपोलतलेऽभिषिक्तो रोमाश्चादिना व्यक्तो योऽनुरागः तेन 15 मुभगाम् ' शृङ्गारसीमनि 'इति तारुण्ये ॥
यत्रापि स्वशब्देन निवेदितत्वमस्ति तत्रापि स्वशब्दमयुक्तमा विभावाविपतिपत्यैव रसादीनां प्रतीतिः । स्वशब्देन सा केवलमन्यते यथा
बाते द्वारवती सदा मधुरिपो तात्तशम्पानतां ___ कालिन्दीलटरूढवञ्जुललतामालिनय सोत्कण्ठया । तद् गीतं गुरुवान्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुल्कूजितम् ॥ - अत्र विभावानुभाषवलाद् उत्कण्ठा प्रतीयत एव । सोत्कण्ठशब्दः केवलं सिदं साधयति । 'उक्तम् 'इत्यनेन तु उक्तानुभावानुकर्षणं कर्तुं सोत्कण्ठशब्दः प्रत्युक्त इत्यनुवादोऽपि नानर्थकः ॥ अनुवादो हि शब्दोपात्तस्यैव 25 स्थाद्, न प्रतीयमानस्य ॥ उत्साहेति स्थायिनो भावस्य स्वशब्दोपादानं दोषः । अनुभावविमावयोः संदेहे सति कष्टकल्पनया यत्र व्यक्तिः सोऽनुभावविभावव्यक्तिकष्टकल्पना नाम रसदोषः ॥ तत्र अनुभावस्य कष्टकल्पना यथा 'क'रेति ।