________________
[ ७ स० उल्लासः ]
काव्यप्रकाशः
प्रतिकूलविभाषादिग्रहो दीसिः पुनः पुनः । अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ ६१ ॥ अङ्गिनोऽननुसंधानं प्रकृतीनां विपर्ययः । अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥६२॥ स्वशब्दोपादानं व्यभिचारिणो यथासत्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रास भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । जनुसुतावलोकन विधौ दीना कपालोदरे
से
पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः || ३२१ ॥ अत्र व्रीडादीनाम् ।
व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि । मीलभ्रूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे इत्यादि तु युक्तम् ।
रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यत्वम् । क्रमेणोदाहरणम्
१७५
5
10
15
रीति ॥ शब्दवाच्यतेति । यत्र शृङ्गारादिशब्दरहितत्वं यथा 'परिमलितमृणाली'. इति, तत्रापि अनुभावबोधानन्तरमेव तन्मयीभवन् युक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनानुरतस्वसंविदान्दचर्वणागोचरोऽर्थात्माऽभिलाषचिन्तौत्सुक्यनिद्रालस्यादिशब्दाभावेऽपि स्फुरत्येव, न च केवलशृङ्गारादिशब्दमात्रभाजि विभा- 20 वादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति यथा ' शृङ्गारहास्यकरुणाः ' इत्यादौ तस्माद् अन्वयव्यतिरेकाभ्यां अभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनां न त्वभिधेयत्वं कथंचिदित्युक्तम् । ततो व्यभिचारिरसस्थायिभावान स्वशब्दोक्तिर्दोष इत्यर्थः । एतेन च 'रसवद्दर्शितस्पष्टशृङ्गारादिरसोदयं स्वशब्दस्थायिसंचारिविभावाभिनेयास्पदम् ' इत्यस्य व्याख्यायां 'पञ्चरूपा रसाः' इत्यु- 25 पक्रम्य ' तत्र स्वशब्दाः शङ्गारादयः शृङ्गारादेर्वाचका ' इति महोद्भटोक्तं निरस्तम् ॥ व्रीडादीनामिति, स्वशब्दोपादानमिति योगः ||
स्वशब्देनेति, रस इत्येवंलक्षणेन ॥ शृङ्गारादीति । यथा करणादयोऽर्थाः शक्यप्रतिपत्तयः स्वकार्ये संबद्धा ' दात्रेण ' इत्यादौ करणादिशब्दैर्नाभिधीयन्ते, तथा शृङ्गारादयोऽपि शृङ्गारादिशब्दैरित्यर्थः ॥
30