________________
बार
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लास] रंसदोषानाह
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥६०॥ यस्तु कर्तृव्यत्यासे मग्नप्रक्रमभ्रमः, तत्रापि गुण एव । यदुक्तम्
प्रकृतमपि यत्र हित्वा कर्तृत्वं युष्मदस्मदर्थस्य ।
चारुत्वायान्यत्रारोप्येत गुणः, स तु न दोषः ॥
युष्मदर्थस्य यथा-'यथाह सप्तमो वैकुण्ठावतारः।' अत्र 'यथात्थ त्वम् इति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय ततोऽन्यत्र आरोप्यैवमुक्तम् । दाशरथिं रामं प्रति हि कस्यचित्समक्षमियमुक्तिः ॥ अस्मदर्थस्य यथा
नाभिवादनप्रसाधो रेणुकापुत्रः । गरीयान् हि गुरुधनुर्भङ्गापराधः ।। 10 -अत्रापि 'नाभिवादनप्रसाधोऽस्मि 'इति वाच्ये पूर्ववच्चारुत्वायैवमुक्तम् । एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः॥ यथा वा “ अयं जनः प्रष्टुमनाः" इति । अत्र 'अहं प्रष्टुमनाः' इति वक्तव्येऽस्मदर्थकर्तृत्वमन्यत्रारोप्यैवमुक्तम् ॥
द्विविधश्चान्यशब्दार्थश्चेतनाचेतनभेदाद । तत्र चेतने आरोपो दर्शितः, अचेतने यथा 'तव परशुना लज्जते चन्द्रहासः ॥' अत्र 'वं रेणुकाकण्ठबाधां 15 कृतवान् 'इति 'त्वया बद्धस्पर्षों लज्जे' इति वक्तव्ये चारुत्वाय युष्मदस्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोजडयोरारोप्यैवमुक्तम् ॥ यथा च 'पत्री नैष सहिष्यते मम धनुाबन्धबन्धूकृतः।' 'अत्र अहं न सहिष्ये 'इति वक्तव्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने पत्रिण्यारोप्यैवमुक्तम् ॥
दुष्क्रमोऽप्यर्थदोषः कचिद् अतिशयोक्तौ गुणो यथा
पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणा क्षीणामुदीर्णो रागसागरः ।। त्यक्तपुनरात्तोऽर्थदोषः कचिद् गुणो यथाशीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं
संप्लुष्यन्त्यथ कालकूटपटलीसंवाससंदूषिताः । किं प्राणान्न हरन्त्युत प्रियतमासंजल्पमन्त्राक्षरै
रक्ष्यन्ते किमु मोहमेमि हहहा नो वेग्मि का मे गतिः ॥ -अत्र ससंदेहालंकारस्त्यक्त्वा त्यक्त्वा पुनरुपातो रसपोषाय ॥५७॥ रसापकर्षहेतून सामान्यदोषानुक्त्वा रसे दश विशेषदोषानाह-व्यभिचा
25