________________
१२
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति । चित्रं चित्रमरोदीडाहेति परं मृते पुत्र ॥३१४॥ इत्येवमादौ हर्षभयादियुक्ते वक्तरि ।
कथितपेदं गुणो लाटानुमासे, अर्थान्तरसंक्रमितवाच्ये, विहितस्यान्पत्वे च । क्रमेणोदौहरणानिसितकरकररुचिरविभा विभाकराकार धरणिधैव कीर्तिः। पौरुषकमला कमळा सापि तवैवास्ति नान्यस्य ॥३१५।। ताला औयन्ति गुणा जाला ते सहिएहि धिप्पन्ति । "रविकिरणाणुग्गहियाइ होन्ति कमलाई कमलाइँ ॥३१६॥ जितेन्द्रियत्वं विनयस्य कारणं गुणपकर्षों विनयादवाप्यते ।। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥३१७॥ पतत्मकर्षमपि कचिद्गुणः यथा-उदाहृते पागमाप्रोत्यादौ । (३१८) ‘वद वदेति हर्षात् । 'तव तवे'ति भयात् । 'हा हे'ति शोकात् ।
वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । चत्पदमसकृद् ब्रूते तत्पुनरु न दोषाय ॥
अविवक्षितवाच्यस्यार्थान्तरसंक्रमितवाच्ये शब्दशक्तिमूले ध्वनौ यथा 'ताले 'ति । ताला जाले ति तदा यदा ॥ विषमबाणलोलायां गाथेयम् । अत्र द्वितीयः कमल-शब्दो लक्ष्मीपात्रत्वादिधर्मान्तरशतपरिणतं संज्ञिनं कमलं लक्षयति । व्यङ्ग्यानि त्वसाधारणानि अन्यशब्दावाच्यानि धर्मान्तराणि । 20 अनुपयोगात्मिका च मुख्यार्थवाधाऽस्तीति लक्षणामूलस्वाद् अविवक्षितवाच्यत्वं शुद्धस्यार्थस्य अविवक्षितत्वात् । न चात्यन्ततिरस्कृतत्वं, धर्मिरूपेण तस्याप्यनुगमोत् । वाक्यपौनरक्तपमपि व्यञ्जकत्वापेक्षया गुणः, यथा 'पश्य द्वीपादन्यस्मादपि इति वचनानन्तरं कः संदेहो 'द्वीपादन्यस्मादपि 'इत्यनेन ईप्सित. माप्तिरविघ्नतयैव ध्वन्यते । यथा च--
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्य वनौन्तेऽस्मिन् मया विरहिता त्वया ॥ अब प्रधानभूतविमलम्भारपुष्टये वाक्यार्थद्वयं निबद्धम् ।।
'प्रागप्राप्ते 'ति । अत्र हि भार्गवस्य शिव भक्तिः पतत्प्रकर्षेणैव वचसा
25