SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेत: [७ स० उल्लासः ] येन ध्वस्तमनोभवेन बलिजित्कायः पुरात्रीकृतो यश्चोत्तमुजाहारवलयो गहां च योऽधारयत् ।। यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः । . पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥३०३॥ अत्र माधवपक्षे शशिमदन्धकक्षयशब्दावपयुक्तनिहता । अश्लीलं कचिद् गुणः। यथा सुरतारम्भगोष्ठयाम् ताम्बूलदानविधिना विसृजेद्वयस्यां । द्वयर्थैः पदैः पिशुनयेच्च रहस्यवस्तु ॥ इति कामशास्त्रस्थिती करिहस्तेन संबाधे पविश्यान्तर्विलोलिते।" उपसर्पन्ध्वजः पुंसः साधनान्तविराजते ॥३०४॥ समकथा उत्तानोच्छ्नमण्डूकपाटितोदरसंनिमे। क्छेदिनि स्त्रीवणे सक्तिरकृमेः कस्य जायते ॥३०५॥ निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डतनयाः सह माधवेन । रक्तमसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजमुताः सभृत्याः ॥३०॥ 'येने'ति । माधवपक्षे- येन ध्वस्त बालक्रीडायामनः शकटम् । अभवेन असंसारेण बलि जितवान् यः कायः स पूर्वममृतहरणे स्त्रीत्वं नीतः । उद्वृत्तं 20 भुजङ्ग कालियाख्यं पीडितवान् । रवे शब्दब्रमणि लयः समाप्तिर्यस्य । अहं गोवर्धनगिरि गां भूमि च योऽधारयत् । शशिनं मध्नाति यो राहुस्तस्य शिरोहरः। अन्धकानां वृष्णीनां क्षयं निवासं करोति यः स कृष्णः ॥' उमाधवपक्षे च-'बलिजित्कायो विष्णुदेहः त्रिपुरेषु अस्त्रीकृतः शरतां नीतः । भुजंगाः सर्पाः । शशियुक्तं शिरो यस्य तथाभूतो हरः। अन्धकाख्यो दैत्यः ॥' 25 अश्लीलमिति।व्रीडाजुगुप्साऽमालव्यमकं त्रिषा, क्रमाद् यथा 'करिहस्ते'ति। तर्जन्यनामिके श्लिष्टे मध्या पृष्ठस्थिता तयोः । करिहस्तः ॥ 'संबाधः' संघटो वराङ्गं च । 'ध्वजः' पताकावचि व्यञ्जनं च । साधनं सैन्यं स्त्रीव्यञ्जनं च ॥ • 30
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy