________________
काव्यप्रकाशः।
१६१
10
[ स. उल्लासः ]
अन भाध्यमङ्गलमूर्चनम् ।
संदिग्धमपि वाच्यमहिम्ना कधिनियतार्थमतिपत्तिकैरन व्याजस्तुतिपर्यवसायित्वे गुणः। यथा- .
पृथुकार्तस्वरपात्र भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संपति सममावयोः सदनम् ॥३०॥ प्रतिपाद्यप्रतिपादकयोईत्वे सत्यतीतो गुणः । यथा
आत्मारामा विहितैरतयो निर्विकल्पे समाधौं __ौनोत्सेकाद्विघटिततमोग्रन्धयः सत्त्वनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता
तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥३०॥ स्वयं वा परामर्श यथा
षडधिकदशनाडीचक्रमध्यस्थितात्मा __.. - हृदि विनिहितरूपः सिद्धिदस्तद्विदा यः।
रक्ता सानुरागा प्रसाधिता अर्जिता 'भूः 'यैः, रक्तन मण्डिता पश्च यैः । 'विग्रहः' वैरं शरीरं च । ' स्वस्थाः' कुशलिनः स्वर्गस्थाश्च ॥ 15
पृथुकानां बालानां ये आताः स्वरास्तेषां पत्रम् । पृथनि कार्तस्वरस्य स्वर्णस्य पात्राणि भाजनानि यत्र । भुवि उपितो भूषितोऽलंकृतश्च । विलसत्कैर्गतसंबन्धिभिः पांसुभिर्गहनम् । विलसन्तीभिः करेणुभिप्तिं च । अत्र राजपक्षे नियत एवार्थः प्रतीयते वाच्यस्य गृहस्य महिम्ना। केनचिद् निःस्वेन स्वसदनसमतापादुनन्याजेन राजगृहस्य 20 स्तुतिः कृतेति पर्यवसितोऽर्थः॥ ___आत्मारामेति। देहबुद्धिमाणशून्यरूपमितममातृतानिमज्जनेन अपरिमितबोधरूपे आत्मनि ये रमन्ते । भेदसंसर्गाभ्यां ज्ञानं विकल्पः, तस्माद निष्क्रान्तः । भेदज्ञानमिदं ध्येयमेतद्गुणमेतक्रियमिति, यथा ' गौः शुलश्चलः' इति । संसर्गेण ज्ञाममिदं ध्येयमिदमभिध्येयमिति, यथा ' अयं गौरयमपि गौः। 25 इति । प्रत्यक्षमेवैकं तत्र व्यामियत इत्यर्थः। 'योगमेकत्वमिच्छन्ति वस्तुनीऽन्येन वस्तुना 'इत्युपपादितहशा ध्येयेन सह समापत्तिः समाधिः। तमः अशुद्धोऽध्वा, ज्योतिः शुद्धोऽध्वा । पुराणः घटादिसिद्धेः पूर्व सिद्धः। अनिदं प्रथमतया प्रकाशमानश्च ॥
‘षडधिके 'त्यादि । 'शक्तीनां' इच्छाज्ञानक्रियाणां ब्रमन्यादीनां वामा- 30
स.S
२२: