________________
१६७
10
[७ स० उल्लासः ] काव्यप्रकाशः ।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिमारेः शनैः
सिन्धुध्वानिनि हुंकते स्फुरति यत्तद्गर्जितं गजितम् ॥३००।। अत्र सिंहे वाच्ये परुषाः शब्दाः। प्रकरणवशाद् यथारक्ताशोक कृशोदरी क नु गता त्यक्त्वानुरक्तं जनं
नो दृष्टेति सुधैव चालयसि किं वातावधृतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥३०॥ अत्र शिरोधूननेन कुपितस्य वचसि । कचिन्नीरसे न गुणो न दोषः । यथाशीर्णघाणाज्रिपाणीन्द्रणिभिरपघनैर्घर्घराव्यक्तघोषा
दीर्घाघातानघौघैः पुनरपि घटेंयंत्येक उल्लाघयन्यः। धमाशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिध्ननिर्विघ्नवृत्ते. दत्ताः सिद्धसंधैविदधतु घृणयः शीघ्रमहोविघातम् ॥३०२॥ अपयुक्तनिहतार्थी श्लेषौदी न दुष्टौ । यथा
कुपितस्य व वसीति । ' उत्कण्ठाघटमान इत्यादि श्रुतिकटु । 'तत्पादाहतिम्' 15 इत्यादि च क्रोधाभावे पतत्पकर्ष गुण एवेति योगः ॥
___ अपघनैः अङ्गैः । ' उल्लाघयन् । स्वास्थ्यं नयन् ॥
अपयुक्तत्वं पदस्य गुणः यथा• देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः । -अत्र अमुग्धस्यैव द्विजस्य वक्तृत्वे ' स्वस्ति 'इति ।। निहतार्थ, यथा
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपश्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ।। -अत्र कर्मणामारम्भोपायः पुरुषद्रव्यसंपदेशकालविभागो विनिपात- . प्रतीकारः कार्यसिद्धिश्चेति पश्चाङ्गानि ॥
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । भिक्षूणां शाक्यसिंहेन स्कन्धाः पञ्च प्रकीर्तिताः ।। -इति तद्विद्यसंवादादौ अङ्गस्कन्धपश्चकमिति गुणः ।।
25