________________
काव्यप्रकाशः।
[७ स० उल्लास.]
स्थितेष्वेतत्समर्थनम् ॥५८॥ न खलु कर्णावतंसादिवज्जघनकाशोत्यादि क्रियते।
जगाद मधुरां वाचं विशदाक्षरशालिनीम् ॥ २९३ ॥ -इत्यादौ क्रियाविशेषणत्वे"विवक्षितार्थप्रतीतिसिद्धौ, “गतार्थस्यापि विशेष्यस्य विशेषणदानार्थ "चित्मयोगः कार्यः" 5 -इति न युक्तमुक्तम् । युक्तत्वे वा
चरणत्रपरित्राणरहिताभ्यामपि दुतम् । पादाभ्यां दूरमध्वानं जेन्नपि न विद्यते ॥ २९४ ॥ --इत्याधुदाहार्यम् ।
ख्यातेऽर्थे निर्हेतोरदुष्टता यथा-- चन्द्रं गता पद्मगुणान्न भुङ्क्ते पनाश्रिता चान्द्रमसीममिख्याम् । उमामुखं तु प्रतिपय लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥२९५।।
__ अत्र रात्रौ पद्मस्य संकोचः, दिवा चन्द्रमसश्च निष्पमत्वं लोकमसिद्धमिति 'न भुङ्क्ते' इति हेतुं नापेक्षते।
अनुकरणे तु सर्वेषाम् । स्थितेष्विति । रूढेष्वेवायमपवादः। 'जघनकाची 'इत्यादिशब्दाद् नितम्बकाञ्ची, उष्ट्रकरभेत्यादयस्तेषां कविभिरमत्युक्तत्वात् ॥
'अव्यभिचारिणः कारकस्य अविशेषणः प्रयोगः पुनरुक्ता, यथा ' उवाच दूतस्तमनोदितोऽपि गाम् 'इत्यादौ । सविशेषणस्य तु तस्य न पौनरुक्त्यमित्या- 20 शङ्कयाह-'जगादे 'ति ॥ ‘गतार्थत्यापी'ति । 'विश्वदाक्षरं जगाद 'इति क्रियाविशेषणत्वेऽपि वाचो वैशिष्टयसिद्धांतार्थस्यापि 'वाचम् 'इति विशेष्यस्योपादानं दुष्टम् । न युक्तमुक्तं वामनेनेति शेषः ॥
_ 'चरणो 'ति । 'चरणत्र 'इत्यादि विशेषणं पादयोरेव संगच्छते, न तु बजे, तेन क्रियाविशेषणत्वे विवक्षितार्थपतिपयसिद्धः। 'पादाभ्याम् इति 25 विशेष्यं गतार्थमपि 'चरणत्र 'इत्यादिविशेषणसिद्धयर्थमुपादेयम् ॥५६॥
अथापवादानाह-ख्यातेऽर्थ इति । प्रसिद्धेऽर्थे । यत्राकाङक्षा नास्ति तत्र निर्हेतुळक्षणो न दोषः, यथा 'चन्द्रम् 'इति । अत्र कुतो न भुक्ते' इति हेतोर्वापेक्षा ।।
15