SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] अपूर्वमधुरामोदप्रमोदितदिशस्ततः। आययुर्धङ्गमुखराः शिरशेखरशालिनः ॥ २८८ ॥ अत्र कर्णश्रवणशिरःशब्दाः संनिधानप्रेतीत्यर्थम् । विदीर्णाभिमुखारातिकराले संगरान्तरे। धनुर्व्याकिणचिन दोष्णा विस्फुरितं तव ॥ २८९ ॥ अत्र धनुःशब्द आरूढत्वावगतये । अन्यत्र तु ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरम्परेण । कारागृहे निर्जितवासवेन दशाननेनोषितैमा प्रसादात ॥२९॥ "इति केवलो ज्याशब्दः। प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः। मुक्ताहारेण लसता हसतीव स्तनद्वयम् ।। २९१ ॥ अत्र मुक्तानामन्यरैलामिश्रितत्वबोधनाय मुक्ताशब्दः । सौन्दर्यसंपत्तारुण्यं यस्यास्ते ते च विभ्रमाः । षट्पदान पुष्पमालेव कौन्नाकर्षति सा सखे ॥ २९२ ॥ .. 15 अत्रोत्कृष्टपुष्पधिये पुष्पशब्दः । निरुपपदो हि मालाशब्दः, पुष्पसजमेवाभिधत्ते । धनुःशब्द इति । ज्याशब्देनोक्तार्थापि धनुःश्रुतिः प्रयुज्यते आरोहणस्य पतिपत्त्यै; अन्यथा 'ज्याकिणचिनेत्युक्तेऽनवरतहढाकर्षणाहितकिणमण्डितत्वं 'दोष्णा' न प्रतीयते; वेष्टयमानयापि ज्यया किणस्य संभवात् ॥ मुक्ताशब्द इति । हारशब्देनैव गतार्थः प्रयुज्यते शुद्ध प्रतिपत्त्यै। उत्भेक्ष्यमाणस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवलतापतिपयर्थ साधकतमस्य हारस्य केवलमुक्तालतावेष्टितत्वप्रतीत्यर्थं प्रत्युक्त इत्यर्थः ॥ पुष्पशब्द इति । विदग्धजनमनोविलोभनक्षमकान्तारत्नोपमानभावेन मालाया उपादानाद् उत्कृष्टपुष्पग्रथितत्वावगमाय प्रयुक्तः।। ' त्यज करिकलभ- 25 प्रेमबन्धं करिण्याः।' अत्र करि-शब्दात् ताद्रप्यावगतिः । करी पौढकुभरस्तट्रपः कलभ इति । यत्र तु न विशेषावगतिः, यथा 'अदादिन्द्राय कुण्डले,' 'पाण्डयोऽयमंसार्पितलम्बहारः,' 'मालाकार इवारामे, ' 'लब्धेषु वर्त्मसु मुखं कलभाः प्रयान्ति 'इत्यादौ, तत्र केवला एव कुण्डलादिशब्दाः ।। 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy