________________
.
10..
१६२
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥२८०॥ अत्र श्रुतबुद्धयादिभिरुत्कृष्टैः संहचरैर्व्यसनमूर्खतयोनिकृष्टयोभिनत्वम् ।
"लग्नं रागावृताङ्गया ॥ २८१ ॥ इत्यत्र विदितं तेऽस्त्वित्यनेन श्रीस्-स्मादपसरतीति विरुद्धं प्रकाश्यते। प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा
मकेशवमपाण्डवं भुवनमय निःसोमकम् । इयं परिसमाप्यते रणकथाघ दो शालिना
"मपैतु रिपुकाननातिगुरुरध भारो भुवः ॥ २८२ ॥ अत्र शयितः प्रयत्नेन बोध्यस इति विधेयम् ।४० यथा वावाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रतैर्बहिशिः। तेऽपि क्रूरचमूरुचर्मवसनैनीताः क्षयं लुब्धकै
दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥२८३।। अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम् । योज्यतेऽथाक्षेपत्वेनाथापि ' नेम्वरो लभ्यते 'इति अर्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिद् निर्वाहः ॥
___ सहचरा उत्कृष्टत्वनिकृष्टत्वादिना भिन्नाः पृथग्भूताः, अथवा निकृष्ट- 20 रुत्कृष्टाः सहचरा भिन्ना मिश्रिता यत्रेति सहचरभिन्नत्वं, यथा 'श्रुतेनेति ॥
प्रकाशितं विरुद्धं यत्र स तथा, यथा ' लग्न'मिति ॥
विधिरयुक्तो, यथा 'प्रयत्ने'ति । अश्वत्थामा दुर्योधनं प्रत्याह । शत्रुषु हतेषु शयितः सन् स्तुतिभिरेव यदि परं बोध्यसे, न तु चिन्तया । सोमो जनपदस्तत्रभवा राजानः 'सोमकाः' । सर्वत्र भविष्यतीति योगः ॥ विधेय- 25 मिति 'शयित' इत्यनुवादे वाच्ये शेष इति विधिरयुक्तो, 'बोध्यसे' इत्यस्यैव विधेयत्वात् । तथात्रैव प्रयत्नेन 'बोध्यस,' इति विधौ वाच्ये 'परिबोधितः' इत्यनुवादोऽपि अयुक्तः॥
व्युत्क्रमेण वाच्यमिति । न हि वाताहारत्वाद् अधिको दम्भस्तोयकणवतम्।