________________
काम्यादर्शनामसंकेतसमेतः [७० उल्लास: ] यंत्रानुल्लिखिताक्षमेव निखिलं निर्माणमेतद्विधे
रुत्कर्षपतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुलक्ष्य यत्संपद
स्तस्याभासमणीकृवाश्मसु मणेरश्मत्वमेवोचितम् ॥२७४॥ अत्र च्छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतवोचितेति सनियमत्वं वाच्यम् । वाम्भोजं सरस्वत्यधिवसति सदा शोण एवापरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः। वाहिन्यः पार्थमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं
स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ।।२७५॥ 10. अत्र शोण एवेति नियमो न वाच्यः । श्यामां श्यामलिमानमानयत भोः सान्दैमषीकूर्चकै
मन्त्रं तन्त्रमय प्रयुज्य हरत श्वेतोत्पलानां श्रियम् । चन्द्रं चूर्णयत क्षणाच कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राहिताः ॥ २७६ ॥ 15 अध ज्योत्स्नामिति श्यामाविशेषो वाच्यः ।
कल्लोलवेलितहषत्परुषमहारे
___ रत्नान्यमूनि मैकैरालय मावसंस्थाः । योति ॥ 'अनुल्लिखिताक्ष'मिति । अनभिव्यक्ताकारं जगतोऽपोन्द्रियाणि यत्स्वरूपं न निर्णतुं समर्यानीति भावः । आभासेनैव मणीकृता अन्येऽश्मानो 20 येन स चासौ सुमणिश्च । छायामात्रेत्युक्ते हि च्छाययैवेति सनियमस्वं सावधारणत्वं गम्यते, तश्चात्र नोक्तमिति नियमे वाच्ये 'तस्याभासे'त्यनियम उक्तः ।।
___ परिवृत्तोऽनियमः । सनियमेन यथा ' वक्त्राम्भोज'मिति । 'सरस्वती' नयपि । 'शोणो' नदभेदोऽपि । 'मुद्रा' अङ्गुलिमुद्राः। 'वाहिन्यः' सेना नयश्च । 'मानसं ' सरश्च । नियमो न वाच्य इति अवधारणे हि कृते एकस्मि 25 नेवार्थे शोणशब्दः पर्यवस्यति, न तु द्वये इति । 'शोण' इत्यनियमे वाच्ये 'शोण एवेति नियम उक्तः ॥
परित्तो विशेषोऽविशेषेण, यथा 'श्यामा'मिति । 'ज्योत्स्नोम्'इति वाच्ये 'श्यामाम् इति सामान्यमुक्तम् ॥
अविशेषो विशेषेण परिहत्तो यथा ' कल्लोले 'ति । अब एकेनेति सामान्ये 30