________________
१५०
१७. उल्लासः
काव्यप्रकाशः। प्राप्ताः श्रियः सकलकामदुधास्ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम् । 4 संतर्पिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥२७२।। अत्र ततः किमिति न नवीकृतम् । तत्तु यथायदि दहत्यनलोऽत्र किमद्भुतं
यदि च गौरवपद्रिषु किं ततः। लवणमम्बु सदैव महोदधेः
प्रकृतिरेव सतामविषादिता ॥ २७३ ॥ पाजी चैवार्षभी चैव घेवत्यथ निषादिनी ।
षड्जोदीच्यवती चैत्र तथा स्यात् षड्जकैशिकी। इत्यादि । तासां मध्याद् या पद्मोदीच्यवती जातिस्तस्याः सकाशादित्यर्थः ।
पाठयरहितं करणाङ्गाहारादिनिर्वत्यै ताण्डवादि नृत्तं, तत्र विष्णु-गौरी शिवानां रणद्वारचारीमहाचारीषु क्रमेण श्रुत्युपनिबन्ध परितोष इत्यन्यथा निबन्चे 15 नृत्तकलाविरोधः । पाठ्यपूर्वीकारेण ध्रुवागीत्यादियुक्तं करणाहारादि साध्यं; रसात्मकं नाटकादि नाटयं । तत्कलाविरोधो, यथा--
स्थायिनोऽर्थे प्रवर्तन्ते भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तद्वन्नेतर्महीमृतः ॥
स्थायिनो भावाः संचारिणश्च यथा रसस्यार्थे प्रवर्तन्ते तद्वन्नेतुरिति । 20 च-शब्दाध्याहारः । तन्न, न हि बहवः स्थायिन एकस्य रसस्यार्थे प्रवर्तन्ते । सर्वेषां हि रसानां प्रतिनियताः स्थायिनः ॥
चित्रकलाविरोमो यथा• कालिङ्गं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतित कोटि कण्टकश्रि ॥ 'कालिङ्ग' पतितारकण्ट मिति पत्रविदामाम्नायः।
25 न नवीकृतमिति, किं तु तदेवोक्तमित्यर्थः ॥
तस्विति नवीकृतम् । 'यदि दहति 'इति । अत्र हि स्वभाव एवायमिति 'किमद्भुतम् 'इत्याधुक्तिभिर्वैचित्र्येणोक्तम् । सनियमानियमयोविशेषयोः परिवृत्तं विनिमयो येषु वाक्यार्थेषु ते तथा । तत्र परिहत्तो नियमोऽनियमेन यथा