________________
१५८
storदर्शनामसंकेतसमेत:
आसादयन्नभिमतामधुना विवेकख्यातिं समाधित्र मौलिमणिर्विमुक्तः ॥ २७९॥
२३९
** विवेकख्यातिस्ततः संप्रज्ञातः पश्चादसंप्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ । एवं विद्यन्तरैरपि विरुद्धमुद्दाहार्यम् ।
232
[ ७ स० उल्लासः ]
st योगाङ्गानि । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । शौचसंतोषतपः- 5 स्वाध्यायेश्वरप्रणिधानानि नियमाः । स्थिरसुखमासनम् । तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । स्वविषयासंप्रयोगे चित्तस्वरूपानुकार वेन्द्रियाणां प्रत्याहारः । देशवन्धश्चितस्य धारणा । तत्मत्ययैकतानता ध्यानम् । तदेवार्थनिर्भासं स्वरूपशुन्यमिव समाधिः । ' कोलनं ' तत्रैव स्थैर्यम् ।' सिद्धि - सविधं निकटा अपि सिद्धिः । प्रकृतिपुरुषयो में दज्ञानं विवेकख्यातिः । सना- 10 विश्व संप्रज्ञातोऽसंप्रज्ञातश्च । वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः समाधिः । वितर्कवित्तस्य आलम्बने स्थूल आभोगः । सूक्ष्म विचारः । आनन्दो हादः । एकरूपात्मिकार्थमात्रा संविद् अस्मिता । विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽसंप्रज्ञातः । सर्ववृत्तिमत्यस्तमये संस्कारशेषो निरोत्रश्चित्तस्य समाधिरसंप्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय 15 कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशुन्यस्तदभ्यासपूर्व चित्तं निरालम्बनम भावमाप्तमित्र भवतीति निर्बीजः समाधिरित्याहविवेकेति ॥
गीतविरुद्धं यथा
श्रुतिसमधिकमुचैः पञ्चमं पीडयन्तः सततमृषभहीनं भित्रको कृत्य षड्जम् । प्रणिजगदुरका कुश्रावक स्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ।
"
20
'श्रुतिसमधिकम् ' इति श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः । 'पीडयन्तः' इति श्रुतिहासेनाल्पीकुर्वन्त इत्यर्थः । ' भिन्नकीकृत्य षड्जम् ' इति भिन्नषड्जं कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्याम्नायात् । अत्र भिन्नषड्जेन मागधीगीतिरुपनिबद्धा । तस्यां च पञ्चमस्य ऋषभवद् असंभव 25 एव, दूरे पुनः श्रुतिसमधिकत्वं यतो भिन्नषड्जस्येदं लक्षणम् -
धांस्तु धैवत न्यासः पञ्चमर्षभवर्जितः ।
षड्जोदीच्यवती जातिर्भिन्नषड्ज उदाहृतः ॥
'धांश।' इति धैवतांशः । जातयो ह्यष्टादश, यन्मुनिः-