________________
१५०
काव्यादर्शनामसंकेत समेतः
अविद्यमानः क्रमो यत्र, येथीद्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कळावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ २५३ ॥ अत्र वंशब्दादेनैन्तरं [च] कारो युक्तः ।
यथा वा
[७] स० डल्लासः ]
शक्तिर्निस्त्रिंशजेयं तव भुजयुगुले नाथ दोषाकरश्रीdes पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुरें: किं मया दृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥२५४॥ अत्रेत्थं प्रोच्येवेति न्याय्यम् । ळेनं रागावतायेत्यादाविति
5
10
- अत्र शृङ्गलाक्रमेण कर्तुः कर्मभावः कर्त्रन्तरं च यथा प्रक्रान्तं न तथा निर्व्यूढम् । दीपकालंकारस्य च काव्यशोभाकारित्वेन उपनिषद्धस्य अनिर्वाहा भग्नप्रक्रमत्वम् | दयितसंगम-शब्दस्य च प्राधान्येन अभिमतस्य समासे गुणी 15 भूतत्वाद् अविमृष्टविधेयांशत्वम् । 'तमपि वल्लभसङ्ग 'इति तु युक्तम् ॥
6
' द्वय'मिति । ‘संप्रति द्वयं च ' इति अतिरम्यम् । यत् किल पूर्वमेका सैव दुर्व्यसन दूषितत्वेन शोभ्या जाता। संप्रति पुनस्त्वया तस्याः सहायकमिव आस्न्यमित्युपहस्यते । प्रार्थना-शब्दोऽपि रम्यः, यतः काकतालीयन्यायेन तत्समागमः कदाचिन्न वाच्यतावहः । प्रार्थना पुनरत्यन्तं कलङ्ककारिणी । सा 20 च त्वं चेति द्वयोरप्यनुभूयमानपरस्परस्पर्द्धिळावण्यातिशयप्रतिपादनपरत्वेन उपात्तम् । naraa: कान्तिमती ' इति च मतुप्प्रत्ययेन द्वयोरपि प्रशस्यता प्रतीयते । 'सा' इति सर्वप्रसिद्धा ॥ त्वं 'शब्दादिति । समुच्चययोतको हि चकारः समुच्चीयमानार्थाद् अनन्तरमेव प्रयोज्य इति क्रमः । अत्र पदस्य अस्थाननिवेशिवेऽपि क्रमाभाववैशिष्टयं विवक्षितमिति अपदस्यपदाद् अस्य भेदः ॥ यथा च 25 उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः । - अत्र हि पुनः शब्दः 'तेन' इत्यतोऽनन्तरं प्रयोज्यः । पुनः शब्दो हि व्यतिरिच्यमानार्थान्तर्येणैव प्रयोगमईतीतिक्रमः ॥
•