________________
१४४
काव्यादर्श नामसंकेतसमेतः
अस्थानस्थपदं यथा --- प्रियेण संग्रध्य विपक्षसंनिधौ "" निवेशितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविला
वसन्ति हि प्रेम्ण गुणा न वस्तुनि ॥ २३७ ॥
aa काचिन विजहाविति वाच्यम् । यथा वा
-
[ ७ स० उल्लास: ]
विशेषप्रतिपत्तये कपालि - ग्रहणमपरमपि कर्तव्यं, येनास्य गर्हितत्वं प्रतीयेत । द्वितीये पक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्ना वा विशेष्यमवश्यमुपादेयं भवति, येन तस्य विवक्षितार्थसिद्धौ आर्थो हेतुभावोऽवकल्पेत । न चैषामेकमप्यत्रोक्तमिति दोष:, तेन 'द्वयं गतं संपति तस्य शोच्यताम्' 01 इति युक्तम् ॥
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो
रसावस्याः स्पर्शो वपुषि बहलचन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः, किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥
5
वयं तु ब्रूमः, न हि शब्दस्याभिधैव व्यापारो, येनैकस्मिन्नेव आर्थे उपक्षीणत्वात् तस्य शब्दान्तरमर्थान्तरार्थं प्रयुज्येत । तदा वृत्तिनिबन्धनं वा किंचित् परिकल्प्येत, किं तु व्यापारान्तरमपि व्यञ्जकत्वलक्षणमित्येकस्मादेव शब्दाद् वाच्येन सहैव व्यङ्ग्यस्यापि प्रतीतिः । तथा हि परमेश्वरवाचक शब्दसहस्र- 15 संभवेऽपि ' कपालिनः ' इति तद्वाचकतया प्रयुक्तं बीभत्सरसालंबनविभावतां सूचयद् जुगुप्सास्पदत्वं ध्क्नति । अनभिहितवाच्यत्वं चोपलक्षणं, तेन अवाच्यवचनमपि दोषः । यथा
'स्रजं न काचिदि'ति । निर्देशे 'कापि' इति न प्रतीयते, किं तु 'सर्वापि ' इति प्रतीतिः, ततो नम उतरवर्तिना किम्-शब्देन योगस्त्याज्यः ॥
20
अत्र यत्साक्षात् सीताया वर्णनं तद् अवाच्यमेव, तत्संबन्धिनां स्पर्शादीनामेवेह रम्याणामर्थानां विरहव्यतिरेकेणाङ्गिभावेनोपयोगात् ; न तस्या एव विरहस्य तत्संबन्धित्वेऽपि असह्यत्वाभिमानादिति सीतावर्णनं दोष: । ' मुखं 25 पूर्णश्चन्द्रस्तनुरमृतवर्तिर्नयनयो: ' इति त्वाद्यः पादो युक्तः ॥