________________
[७स. उल्लासः ] काव्यप्रकाशः ।
एषोऽहमद्रितनयामुखपद्मजन्मा माप्तः सुरासुरमनोरथद्रवर्ती। स्वप्नेऽनिरुद्धघटनाधिगताभिरूप
लक्ष्मीफलामसुरराजसुतां विधाय ॥२३५॥ अत्र मनोरयानामपि दूरवर्तीत्यप्यों वाच्यः । यथा - त्वयि निबद्धरतेः प्रियवादिनः प्रणयमापराङ्मुखचेतसः ।। कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥२३६।। अत्रापराधस्य लवमपीति वाच्यम् ।
'एषोऽहम् ' इति । उषा नानी शिवायाः मुता। सा च पुराणवृत्तान्तेन 01 बाणासुरसुतेति लोके रूढा । सा चानिरुद्धेन कामसुतेन सह 'स्वप्नलब्धं वरं प्राप्स्यसि ! इति गौर्या दत्तेन प्रसादेन परिणायिता । स च गौरीमुखविनिर्गतो वरः साधिष्ठायकत्वाद् देवतारूपोऽन्येषां पुर आत्मानं प्रशंसन्निदमाह । अनिरुद्धेन सह या घटना तयाधिगतं आभिरूप्य-लक्ष्म्याः मुरूपतायाः फलं यया ॥ . वाच्यमिति । यतोऽत्रापि शन्दं विना विवक्षितार्थस्य न प्रतीतिः, कचिच 15 दुष्टार्थप्रतीति: स्यात् । यथा
संपदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि । __शारदाभ्रमिव चञ्चलमायुः किं धनैः परहितानि कुरुध्वम् ।। ... अत्र धन-शब्दानन्तरं कार्य-शब्दानुक्तेः, 'धनैः किम्' इति 'परहितानि कुरुध्वं ' मा काप्टेंति दुष्टोऽर्थः प्रतीयते ॥ यथा वा 'नवजलधरः संनदोऽयम् ' 20 इत्यादौ ॥ अत्र भ्रान्तौ निवृत्तायां तद्विषयभूतयोः सुरधनुर्धारासारयोरिव विधुतोऽपि 'इदमा' परामों वाच्यः ॥ तथा 'कमलमनम्भसि कमले च कुवलये' इत्यादौ । अत्र द्वितीयः कमलार्थः सर्वनामवाच्यः । तेन ' तस्मिंश्च कुवलये' इत्युक्तम् । केचित्तु 'धमिधर्मोभयात्मनो वस्तुनः प्रतिपत्तये पुनः स एव शन्दस्तत्पर्यायः सर्वनाम वावश्यं वाच्यमपि, यत्र नोक्तं तत्रापि अनभिहित- 25 वाच्यत्वम् ' इत्याहु । यथा
द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
अत्र कपालि-अब्दो धर्मिधर्माभयार्थवृत्तिः संज्ञिमात्रं वा प्रत्याययेत् , कपालसंबन्धकृतं वा गर्हितत्वम् , उभयमपि वेति त्रयः पक्षाः ॥ तत्राघपक्षे