________________
काव्यादर्शनामसंकेतसमेतः
[सं० उल्लासः ] .
तथा
10
जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकराळः प्रत्यग्रालक्तकामाप्रसरकिसलयो मजुमभीरभृङ्गः। भर्तुर्वृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोमां विदधदभिनवो दण्डपादो भवान्योः ॥२३३॥ .. 5 अत्र दण्डपादगता निजतनुः प्रतीयते । भवानी संबन्धिनी तु विवक्षिता। अवश्यवक्तव्यमनुक्तं यत्र । यथाअप्राकृतस्य चरितातिशयैश्च दृष्ट
___ रत्य(तैरपहतस्य तथापि नास्था । कोऽप्येष धीरशि काकतिरप्रमेय
माहात्म्यसारसमुदायमयः पदार्थः ॥ २३४ ॥ अत्रापहनोऽस्मीत्यपहृतत्वस्य विधिर्वाच्यः । तथापीत्यस्य द्वितीयवाक्यगेतत्वेनैवोपपत्तेः। यथा वादृढतरनिविष्टमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ अत्र कृपण-कृपाणयोराकारमात्रकृतो व्यतिरेक उक्तः। स चायुक्तः । द्विविधो ह्याकारार्थः सन्निवेशलक्षणोऽक्षरविशेषलक्षणश्च । तत्राद्यस्तावत् परस्परपरिहारस्थितिमतोरर्थयोः सिद्ध एवेत्यनुपादेयो न चमत्करोति । द्वितीयस्तु 20 अक्षरविशेषकृतस्य भेदाभेदव्यवहारस्य शन्दैकविषयत्वाद् अर्थयोर्न संभवत्येव । इह तु युक्त एवासौ ॥
अक्षराणामकारोऽहमिति यः स्वयमभ्यधात् । . सोऽपि त्वयाऽमुना स्वाभिन्नाकारेण लघूकृतः ॥
तेनाक्षरविशेषात्मकाकारभेदलक्षणस्य शब्दधर्मस्य अर्थविशेषणभावेन 25 परस्परमसंबन्धो दोषः ॥
विधिर्वाच्य इति । अपहृतत्वलक्षणो विधिः षष्ठयन्तनिर्देशे सति न युक्तो, यतः तथापीति भिन्नवाक्यगतत्वेनैवोपपद्यते ॥