________________
[ ७ सं० उल्लासः ]
काव्यप्रकाशः ।
संग्रामागतेन भवता चापे समारापिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च ""कीर्तिरनघा कीर्त्या च लोकत्रयम् ॥ २३० अत्राकर्णन क्रियाकर्मत्वे कोदण्डं शरानित्यादि, वाक्यार्थस्य कर्मत्वे कोदण्डः शरा इति प्राप्तम् । न च यच्छब्दार्थस्तद्विशेषणं बा कोदण्डादि । न च केन केनेत्यादिप्रश्नः ।
यथा वा
पाचार्यत्रिपुरविजयी ॥ २३१ ॥
इत्यादौ भार्गवस्य निन्दायां तात्पर्यम् । कृतवतेति परशौ सा प्रतीयते । कृतवत इति तु पाठे मतयोगो भवति । यथा वा
चत्वा वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतत्रता । कौरव्याः पशवः मियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ||२३२ || अत्राध्वरशब्दः समासे गुणीभूत इति न तदर्थः सर्वैः संयुज्यते ।
૪
अत्राकर्णनेति । यद्याकर्णयेति क्रियायाः कोदण्डादयः कर्मत्वेन विवक्ष्यन्ते तदा तेभ्यो द्वितीया स्यादिति मात्रः ॥ वाक्यार्थस्येति । यदि कोदण्डादिवाक्यार्थः कर्मत्वेन विवक्ष्यते तदा प्रथमान्तता स्यात् । यथा
अवैमि तदपध्यानाद् यत्नापेक्षो महोदयः ।
प्रतिबध्नाति हि श्रेयः पूज्यपू[ ! जा ] व्यतिक्रमः, इत्युत्तरार्धम् ।
5
10
15
20
इत्यादी ' अत्रैमी 'ति क्रियाया अग्रेतनवाक्यार्थः कर्मत्वेन विवक्षितोऽपि प्रथमान्त इति द्वितीयं दूषणम्। न च ' येन येन' इत्यनयोर्य च्छन्दयोः कोदण्डादिरथ येन तद्द्वारेण तद्विभक्तिः स्यात् ॥ नापि ' येन येन ' इत्यादिर्वि - 25 शेषणं कोदण्डादिर्येन यच्छन्दसमन्वयः कोदण्डादिभिः स्यात् । न च ' केन केन' इत्यादिः प्रश्नोऽस्ति येन ' कोदण्डेन' इत्यादेस्तृतीया स्यात् ॥
सर्वैरिति ऋत्विगादिभिः । तेन 'आध्वरः ' इत्याधारतया निर्देष्टुं योग्यः । यथा वा