________________
5
10
काव्यादर्शनामसंकेतसमेत: [७ स० उल्लासः ] अत्र " गुणानां च परार्थत्वादसंबन्धः समत्वात्स्याद्-" इत्युतनयेन यच्छब्दनिर्देश्यानामर्थानां परस्परमसमन्वये यैरित्यत्र विशेष्यस्यामतीतिरिति । क्षपाचारिभिरिति । पाठे युज्यते समन्वयः । यथा वा
त्वमेवंसौन्दर्या सच रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजयः। अपि द्वन्द्वं दिष्टया तदिति सुभगे संवदति वामतः शेषं यत्स्याजितमिह तदानीं गुणितया ॥ २२९ ॥ अत्र यदित्यत्र तदिति, तदानीमित्यत्र यदेति वचनं नास्ति । चेत्स्यादिति तु युक्तः पाठः। यथा वा
अत्र गुणानामिति । ' अप्रधानानां गुणानां च समत्वमेव, प्रधानानुयायित्वादित्येवरूपोऽन्यो यो गुणानां च परार्थत्वाद् 'इत्यादिसूत्रेण जैमिनिना य उक्तस्तदनुसारेणात्र तैरिति विधेयतया प्राधान्येन यत् क्षपाचारिभिरिति प्रत्याययितव्यं तत्परत्वेन यच्छब्दनिर्देश्यानामर्थानामनुवाद्यत्वादेव 15 गुणभूतानां नान्योन्यमन्वयः, प्रधानानुयायित्वेन समत्वात् । अतः 'क्षपाचारिणाम् ' इति विशेष्याभिधायिपदोपादाने 'येषां येषाम् ' इति यच्छन्दद्वये सामानाधिकरण्याद् भवति विशेष्यस्य प्रतीतिः ॥ 'यैः 'इत्यत्र तु सामानाधिकरण्येन यत् 'क्षपाचारिभिः 'इति विशेष्याभिधायि पदं तद् विना कथं विशेष्यं गम्यते । विभक्तिपरिणामश्च शास्त्रीयो न्यायः काव्येषु न युक्त इत्याह 20 'यै 'रित्यत्रेति । युज्यत इति । यदि 'क्षपाचारिणाम् 'इत्यस्य स्थाने 'क्षपाचारिभिः'इति पठ्यते तदा त्रयोऽपि यच्छदार्थाः समशीर्षिकया धावित्वा प्रधानेन तैः क्षपाचारिमिरित्यनेन प्रतिस्वमानस्येनैव संबन्धमनुभवन्तीत्यर्थः॥
त्वमेव 'मिति । एवं परिदृश्यमानं सर्वातिशायि सौन्दर्य यस्याः। ‘स च रुचिरतायाः' सौन्दर्यस्य 'परिचितः । 'सीमान'मुत्कर्षम् । युवयोमिथुन• 25 मिति प्राक्तनेन हेतुना संवदति । अतः संवादात् शिष्टं यद् अन्योन्यं सुरतसुखानुभवनं तच्चेत्स्यात् ' तदानीं गुणितया जितमनुरूपं संयोजनया सोंस्कर्षेण वृत्तमित्यर्थः ॥ न चात्र न्यूनपदत्वं दोषो यच्छन्नाभावेऽपोष्टसंबन्धस्या भावादित्यभवन्मतयोगो दोषः ॥