________________
[ सं० उल्लास:
काव्यप्रकाशः। अत्र विजेय इति कृत्यप्रत्ययः क्तमत्ययार्थेऽवाचकः ।
अतिपेलवमतिपरिमितवण लघुतरमदाहरति शेठेः। परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥२०४॥ अत्र पेलवशब्दः। यः पूयते सुरसरिन्मुखतीर्थसार्थ
स्नानेन शास्त्रपरिशीलनकीलनेन । सौजन्यमान्यजनिरूजितमूर्जितानां
सोऽयं दृशोः पतति कस्यचिदेव पुंसः ॥ २०५ ॥ अत्र पूयशब्दः। विनयप्रणयैककेतनं सततं योऽभवदा तादृशः। कथमध स तद्वदीक्ष्यतां तदभिप्रेतपदं समागतः ॥ २०६॥ अत्र प्रेतशब्दः।
कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् । ___ अयं साधुचरस्तस्मादअलिबध्यतामिह ॥ २०७॥ अत्र कि पूर्व साधुरुत साधुषु चरतीति संदेहः । किमुच्यतेऽस्य भूपालमौलिमालामहामणेः । मुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ २०८ ॥ अत्र वचःशब्देन गीःशब्दो लक्ष्यते । अत्र खलु न केवलं पूर्वपदं, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्या
दौ तूत्तरपदमेव, वडवानलीदौ च पूर्वपदमेव ।।
यद्यप्यसमर्थस्यैवापयुक्तादयः केचन भेदास्तथाप्यन्यैरलंकारकारैविभागेन प्रदर्शिता इति, भेदप्रदर्शनेनोदाहर्तव्या इति च - कीलनं ' तत्रैव स्थैर्यम् । सौजन्यमान्यतयोर्जनिरुत्पत्तिः ॥ प्यशब्द इति । पदांशो जुगुप्सार्थः ॥ प्रेतशब्द इति अमङ्गलार्थत्वात् पदांशोऽश्लीलः ॥
25 नेयार्थ पदांशे यथा · किमुच्यत' इति ॥ जलध्यादौ विति । उत्तरपदपरिवर्तने हि मेघ एव वाच्यो, न समुद्रः ॥ यदुक्तम्---
शब्दप्रवृत्तिहेतौ सत्यप्यसमर्थमेव रूढिवशात् ।
यौगिकमर्थविशेषे पदं यथा वारिधौ जलभृत् ॥ अप्रयुक्तादय इति । आदिशब्दाद् अवाचकसंदिग्धनेयार्थाः ।। मेदप्रदर्शने- 30