________________
[सं० उल्लासः
काव्यप्रकाशेः। "श्रितक्षमा रक्तभुवः शिवालिक्तिमूर्तयः । विग्रहक्षपणेनाध शेरते ते गतासुखाः ॥ १९७॥ अत्र क्षमादिगुणयुक्ताः सुखमासत इति विवक्षिते हता इति "विरुदा प्रतीतिः। पदैकदेशे यथासंभवं क्रमेणोदौहरणानि-- अलमतिचपलत्वात्स्वप्नमायोपमत्वात
परिणतिविरसत्वात्संगैमेन प्रियायाः। स्नेहं समापिबति कजलमादधाति सर्वान् गुणान् दहति पात्रमधः करोति । योऽयं कुशानुकणसंचयसंभृतात्मा दीपः प्रकाशयति तत् तमसो महत्त्वम् ॥
अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा, नान्यासामिति तासां 10 तत्समशीर्षिकया निर्देशो दोषः । स हि तत्र शत्रादिमिरेव वक्तुं न्याय्यो, न आख्यातेन । यथा 'विभ्राणः शक्तिमाशु प्रशमितबळवचारकौनित्यगुर्वीम् । इत्यादौ ॥ यथा वा ममैव--
शश्वदर्शनलोपिसन्तततमस्तोमच्छिदा पण्डितः
काषायं दधदम्बरं मुनिरिव क्षोणी पुनानः परम् । . कुर्वाणः करविभ्रमैत्रिजगतो बोधं समध्यासितः
__पौरस्त्याचलवेदिकां दिनकरः क्लिश्नातु वः कल्मषम् ॥ . सर्वासां पुन: प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः। यथा-- सौधादुद्विजते त्यजत्युपवन द्वेष्टि प्रभामैन्दवीं ___ द्वारानश्यति चित्रकेलिसदसो वेषं विषं मन्यते ।
20 आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले
संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा॥ यत्रैककर्तृकानेका प्राधान्येतरभाक्क्रिया।
तत्राख्यातेन वाच्याद्या शत्रायैरितरा पुनः ॥ - इयं च समासासमासचिन्ता रसमसादानुगुणप्रयोगावहितचेतसां 25 सहृदयानामेव उचिता, नान्येषाम् । ते हि शुष्कशब्दव्युत्पत्तिमात्रोपजनितामिमानदुर्विदग्धा लक्षणमस्तीत्येव रसाभिव्यक्तिविघ्नभूतं बहवकरमायं प्रयुञ्जते ।
'श्रितक्षमा 'इति । कृतोपशमा भूमौ पतिताश्च, अनुरक्तलोकाः शोणित धाराश्च, शिवा शृगाली च, विग्रहः कलिः शरीरं च, गताशर्माणः
15