SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनाम संकेत समेतः [ ७ स० उल्लासः ] १३० कार्यः । एवं समासान्तरेष्वप्युदाहार्यम् । 7 विधेयतावगतिः, तत एव चैषां विशेष्ये ममाणान्तर सिद्धस्थोत्कर्षापकर्षाधायिनां शाब्दे गुणभावेऽप्यार्थ प्राधान्यं विशेष्याणां च शाब्दे प्राधान्येऽप्यार्थी गुणभावोऽपि, अनूद्यमानत्वात् । समासे च विभक्तिलोपाद् नोत्कर्षापकर्षावगतिरिति न तन्निबन्धनरसामिव्यक्तिरिति तदात्मनः काव्यस्य अविमृष्टविधेयां- 5 शत्वं दोषः । तच्चैतद् विशेषणमेकमनेकं वास्तु, नानयोर्विशेषः कश्चित् ॥ तत्र कर्मधारये यथा 1. उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः 10 शय्यामालिक्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ अत्र विगलितकबरीभारस्वं अलसलसद्वाहुत्वं च अंसवपुषोर्विशेषणे रतेरुद्दीपनविभावतापादनेन वाक्यार्थस्य कामपि कमनीयतामावहत इति प्राधान्येन विवक्षितत्वाद् न ताभ्यां सह समासे कविना न्यग्भावं गमिते ॥ एवं समासान्तरेष्विति ॥ 15 अविमृष्टविधेयांशत्वं बहुव्रीहौ यथा- यः स्थलीकृतविन्ध्याद्विराचान्तापारवारिधिः ! यातापितवातापिः स मुनिः श्रेयसेऽस्तु वः ॥ स्थलीकरणादि विधेयं, 'येन स्थलीकृतो विन्ध्यः ? इत्यादि तु युक्तम् । यत्र पुनरेष प्रधानेतरभावो न विवक्षितः स्वरूपमात्रप्रतिपत्तिफलच 20 विशेषणविशेष्यभावः तत्र समासासमासयोः कामचारः । यथा-स्तनयुगमश्रुस्नातं समीपपरिवर्ति हृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ अत्र भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणां स्तनयुगस्य च संबन्धित्वेन यद् विशेषणं, न ततस्तेषामुत्कर्षयोगः कश्चिद् विवक्षितः, 25 अपि तु तत्संबन्धप्रतीतिमात्रम् । तच्च ' व्रतमिव ' भवदरिवधूस्तन द्वितयमित्यतः समासादपि तुल्यमेव । यथाचैत्र 'रिपुत्रीणाम् ' इति रिपुसंबन्धमात्रप्रतीतिः स्त्रीणां विधेयत्वं चैतत्प्राधान्योपलक्षणम् अव्यभिचारात् । ततश्च प्रधानाविमर्शोऽपि दोष:, यथा-
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy