________________
१२८
काव्यादर्शनामसंकेतसमेतः
[ ७ स० डल्लासः ]
तच्छब्दार्थमाह
असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥ १९१ ॥ अत्र हि न तच्छब्दार्थप्रतीतिः ।
प्रतीतौ वाकरवालकरालदोः सहायो युधि योऽसौ विजयार्जुनैकमल्लः । यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ॥ १९२॥ अत्र स इत्यस्यानर्थक्यं" भवेत् ।
अथ
योsविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ १९३ || इतीदंशब्दवददः शब्दस्तच्छन्दार्थमभिधत्त इति । उच्यते । तत्रैव वाक्यान्तर उपादानमर्हति न च तत्रैव । यच्छन्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति । यथा
यत्तदर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥ १९४ ॥
इत्यत्र तच्छब्दः ।
5
.10
15
यथा ' असौ मरुद्र 'इति । ' मरुता ' स्वपित्रा च । ' केशराणि' सटा बकुलवृक्षाश्व । ' ताराधिपः 'चन्द्रः सुग्रीवथ । 'मण्डलं ' बिम्बं राष्ट्रं च । 'रामो ' 20 रामभद्रो रामाः स्त्रियश्च । तर्हि अत्र ' इव ' इति ' यो बिकल्प 'मित्यस्मिन्निव वृत्ते वाक्यान्तरगतत्वेन व्यवहितस्य भिन्नविभक्तिकस्यैव अद- एतद् इदं - शब्दस्योपादानं युज्यते, न तत्रैव यत्रैव यच्छन्दः ॥ अव्यवहितत्वे हि प्रत्युत तदितराकाङ्क्षा मवत्येव, यथा 'यदेतच्चन्द्रान्तर्जलदळवलीलां प्रकुरुते तदाचष्टे' इति । ' सोऽयं वटः श्याम इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो यः 25 इत्यादौ ॥ ' यत्तदूर्जितम् ' इत्यत्र यच्छन्दानन्तरस्य तदः प्रसिद्धतेजोनिष्ठेन यदाभिसंबन्धादार्थः । ' यदस्तु तदपि 'इत्यनेन तदा प्रक्रंस्यमानविषयेण शाब्दः संबन्धः । एवं च ' योऽसौ ' इत्यत्र यदः केवलस्यैव प्रयोगः स केनाभिसंबध्यताम् । ततश्चानूद्यत्वमेव न विधेयत्वमिति स्थितम् ॥
9
1