________________
[ ७०० उल्लासः ]
काव्यप्रकाशः
क्रूरेण दारुणतया सहसैव दग्धा
1
धूमान्वितेन दद्दनेन न वीक्षितासि ॥ १८८ ॥ यच्छन्दस्तू चरवाक्यार्थतत्वेनोपाचः सामर्थ्यात्पूर्ववाक्योंर्थगतस्य तच्छब्दस्योपादानं नापेक्षते । तथा--- साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ १८९ ॥ प्रागुपाचस्तु यच्छब्दस्तच्छन्दोपादानं विना साकाङ्क्षः । यथाअत्रैव श्लोक आयपदयोर्व्यत्यासे । द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम् । अनुपादानेऽपि सामर्थ्यात्कचिद्" गम्यते ।
यथा
ये नाम केचिदिह नः प्रथयन्त्यवज्ञा
जानन्ति ते किमपि तान्मति नैष यत्नः । उत्पत्स्यतेऽस्तु मम कोऽपि समानधर्मा
काळो हायं निरवधिर्विपुला च पृथ्वी ॥ १९० ॥
अत्र य उत्पत्स्यते तं प्रतीति ।
एवं च तच्छब्दानुपादानेऽत्र साकाङ्क्षत्वम् । न चासाविति
१२७
' ये नाम 'इति । नामशब्दोऽक्षमायाम् । 'ये केचिदिह प्रबन्धे देशे काले वा अस्माकमवज्ञां कुर्वन्ति ते किमपि स्वल्पं न किंचिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैष प्रकरण निर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात् । ' लोकात्तरं यज्जानन्तीति व्याख्यातं तत् तेषामुपहासाय । कान् प्रति तत्याह-' उत्पत्स्यते तु 'इति । 'सारेतरविभाग उत्पत्स्यते कविद्' इति संभाव्यते ॥
5
एवं यत्तच्छन्दविचारं कृत्वा ' योऽसौ सुभगे 'ति प्रस्तुते भावयन्नाहएवं चेति ॥ अत्र साकाङ्क्षत्वमिति । 'योऽसौ सुभगेत्यत्र ॥
ननु, ' योऽसौ ' इति यच्छन्दानन्तरोऽदः शब्दः प्रयुक्त एव, स तच्छब्दार्थमभिधास्यतीत्याह-न चेति । न हि ' असौ ' इत्युक्ते ' स' इति प्रतीयते,
10
तदीयां दहनसमयावस्थां स्मरन विलपतिं । ते' इति, सातिशयविभ्रमैकास्पदे " इत्यनुभवैकविषये ॥
"
' चन्द्रमसि ' उदिते सतीति शेषः । ' साधु कृतं यन्मीलितम् । नात्र तच्छन्दापेक्षा, तद्विषयस्य कर्मादेरर्थ सामर्थ्यादेव आक्षिप्यमाणत्वात् ॥
20
15
25