SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [ ७ स० उल्लासः ] काव्यप्रकाशः । विधिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठननुथोच्छूनैः किमेभिर्भुजैः ॥ १८४॥ अत्रायमेव न्यक्कार इति वाच्यम् । उच्छूनमात्रं चानुवाद्यम्, न ब्रुथात्वविशेषितम् । अत्र च शब्दरचना विपरीता कृतेति वाक्य १२५ न्यक्कारयोरनुवाद्य विधेयभावो विवक्षितः । स च रूप्यरूपणास्वभाव इति 5 रूप्यविषयस्यानुवाद्यस्येदमर्थस्य प्रागुपादानं न्याय्यम् । ' अयमेव न्यक्कारः ' इत्युक्ते हि - शब्दशक्तिमहिम्ना न्यक्कारस्य विधेयत्वं प्रतीयते, यथाइयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोः । इत्यादौ ॥ प्रबोधनं प्रबोधितं, तद् विद्यते यस्य ॥ ' हृथोच्छूनैः 'इत्यत्रापि हृथास्वमेव विधेयं, तच्चेत्थं विशेषणतयोपन्यस्तं सद् गौणम् । यदाह कारवी निवसनं मृगचर्म शय्या गेहूं गुहा विपुलपत्रपुटा घटाश्च । मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवी गृहमेधिनस्ते ॥ 10 - अनुवाथमनुक्त्वैव न विधेयमुदीरयेत् । न लब्धास्पदं किंचित् कुत्रचित् प्रतितिष्ठति ॥ विधेयोदेश्यभावोऽयं रूप्यरूपकतात्मकः । न तत्र च विधेयोक्तिरुद्देश्यात् पूर्वमिष्यते ॥ नतु ' अयमेव न्यकार उच्छूनैर्वृथा ? इत्येवं विपर्ययेणात्र संबन्ध: 15 करिष्यते, तस्य पुरुषाधीनत्वात् । तथा च न यथोक्तदोषावकाशः । सत्यम्, न सर्वविषयोऽयं संबन्धस्य पुरुषाधीनत्वोपगमः, तस्य हि विशेषणविशेष्यभाव एव विषयोऽवगन्तव्यः । यत्र स्वसौन्दर्यादेव तयोरन्योन्याक्षेपो न विध्यनुवादभावः । विध्यनुवादयोर्यथाश्रुतपदार्थसंबन्धनिबन्धनोऽर्थप्रतीतिक्रम इति पदार्थपौर्वापर्यनियमो ऽवगन्तव्यः । ततश्च यदनूद्यते तस्य आदौ 20 उपादानमुपपन्नम् । यस्तु विधीयते तस्य पश्चादिति । 'खळेवाली यूपो भवति ' इत्यादौ च तथैव दृष्टम् । तथा ' वृद्धिरादैच् 'इत्यत्र भगवता भाष्यकारेणावत्थापितं यद् ' उतालं मङ्गलद्योतनार्थमादौ ' वृद्धि 'शब्दस्योपादानं क्षमणीयम्, अन्यथा 'आदैच् - अनुवादेन दृद्धिसंज्ञाविधानात् पश्चाद् अभिधानं कार्य स्यात् । यथा 6 अदेङ् गुण' इत्यादौ, तथा प्रमाणमविसंवादिज्ञानमित्यत्रापि यत् प्रमाणमिति 25 लोकप्रसिद्धं तद् अविसंवादिज्ञानमेवेति विज्ञेयम् ' इति तात्पर्यार्थः ॥ काव्येऽपि एषैव शैलेशी (? शैली), यथा I
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy