________________
७१० उल्लास]
काव्यप्रकाशः । यथा चैवपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥१६२।।
अत्रालक्षिता जनिरिति वाच्यम् । यथा चआनन्दसिन्धुरतिचापलशालिचित्त
__संदाननैकसदनं क्षणमप्यमुक्ता। या सर्वदैव भवता तदुदन्तचिन्ता
तान्ति तनोति तव संप्रति घिग्धिगस्मान् ॥१६३॥ अत्र 'न मुक्ता'-इति निषेषो विधेयः, यथा
10 द्वितीयमौर्वो मिति समस्ते निर्देशे द्वितीया-शब्दार्थस्य गौणत्वं, विशेषणभूतत्वात् । तेन 'मौर्वी द्वितीयाम् 'इति युक्तः पाठः। न चैवं गुर्वन्तताभावे वृत्तस्य भाः, तस्य श्रव्यतामाप्रलक्षणत्वात् । तदपेक्षयैव वसन्ततिलकादाविव गुर्वन्तता नियमस्य सकर्णकरत्राप्यनाहतत्वात् । यदुक्तम् -
वंशस्थकादिचरणान्तनिवेशितस्य गत्वं लघोर्न हि तथा श्रुतिशर्मदायि। 15 श्रोतुर्वसन्ततिलकादिपदान्तवर्ति लो गत्वमत्र विहितं विबुधैर्यथा तत् ।।
जनिरिति । जन्मनो घलक्ष्यत्वं विधेयत्वेन विवक्षितं, तच्चत्यं समासेऽस्तमुपगतम् । यथा वा... तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । . , तं च संहितममोघसायकं व्याजहार हरसूनुसंनिभः ।।
20 अत्र सायकानुवादेन अमोघत्वं विधेयम् । 'अमोघमाशुगम् 'इति तु युक्तः पाठः ॥ यथा वा
___ मध्येव्योम त्रिशङ्कोः शतमखविमुखः स्वर्गसर्ग चकार । . अत्र विश्वामित्रस्य तपःप्रभावप्रकर्षः प्रस्तुतः । स च तस्य निरुपकरणस्य सतः शुन्ये व्योमनि स्वर्गसर्गसामर्थ्येनैव प्रतिपादितो भवतीति व्योमैव. 25 'माघान्येन विवक्षितम् , न तन्मध्यम् ॥
कामुकचित्तस्य यत् 'संदाननं ' बन्धनं, पाग् या न मुक्ताऽतिपयत्वात् । तान्ति खेदम् ॥ ' अस्मान् 'इति सखीः ॥ निषेधो विधेय इति । प्रसज्य विषयवादित्यर्थः । यदुक्तम्