SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ... 10 .. काव्यादर्शनामसंकेतसमेत: [७ स० उल्लासः ] नेयाथै इति यन्निषिद्धं लाक्षणिकम् । यथा शरत्कालसमुल्लासिपूर्णिमाशर्वरी प्रियम् । करोति ते मुखं तन्चि चपेटापातनातिथिम् ॥१५८॥ अत्र चैपेटेन निर्जितत्वं लक्ष्यते । अथ समासगतमेव दुष्टमिति संबन्धः । अन्यत्तु केवलं समा- 5 सगतं च । क्लिष्टं यतः, अर्थप्रतिपत्तिय॑वहिता । यथा अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः। सदृशं शोभतेऽत्यर्थं भूपाळ तव चेष्टितम् ॥१५९॥ अत्रात्रिलोचनसंभूतस्य चन्द्रस्य ज्योतिरुद्रमेन भासिभिः . कुमुदरित्यर्थः । अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् । यथामूर्धामुत्तकृत्ताविरलगललसद्रक्तसंसक्तधारा धौतेशीहिप्रसादोपनतजयजगजातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदोद्धराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥१६०॥ 15 : अत्र मिथ्यामहिमत्वं नानुवाद्यम् । अपि तु विधेयम् । यथा चैसस्तां नितम्बादैवलम्बमानां पुनः पुनः केसरदौमकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥१६॥ अत्र मौर्वीद्वितीयामिति द्वितीयात्वमात्रमुत्प्रेक्ष्यम् । 20 लाक्षणिकमिति, तन्नेयार्थमिति योगः। रूढिं प्रयोजनं वा विना स्वधियैव लक्षणया प्रयुक्तम् , यथा 'तुरङ्गकान्ताननहव्यवाह'शब्दो वडवामुखाग्नौ ॥ 'चपेटे 'ति पुंस्यपि निर्जितत्वं लक्ष्यत इति । ततः साम्यमाधिक्यं वेति नेयार्थता ॥ 'अत्रिलोचने 'ति । अत्रैकपदपत्याय्योऽप्यर्थः कुमुदलक्षणोऽत्रीत्याधनेक- 25 पदार्थपर्यालोचनाव्यवहितत्वेन क्लिश्यमानो वाचकस्य क्लिष्टतामावहति ॥ । 'मिथ्यामहिम्नाम् 'इति । पुररक्षणासमर्थत्वात् ॥ विधेयमिति । समासे गुणतां नीतम् ॥ द्वितीयात्वमात्रमिति । मौर्वी हि धनुषः सामान्येन सिदा, न तु द्वितीयात्वं
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy