________________
. 10
७० उल्लासः
काव्यप्रकाशः । अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्दैन चे विद्विषादरः ॥१४९॥
अत्र जन्तुपदमदातर्यर्थे विवक्षितम् , तत्र च नाभिधायकम् । यथा वाहा धिक्सा किल तामसी शशिमुखी दृष्टा मया यत्र सा
तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं ___ ताहग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ॥१५०॥ अत्र दिनमिति प्रकाशमयमित्यत्रार्थेऽवाचकम् । यच्चोपसर्गसंसर्गादर्थान्तरगतम् , यथाजङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मजुमीरभृङ्गः । भर्तुर्वृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी
संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥१५॥
अवन्ध्यकोपस्य' सामर्षस्य आपदां निहन्तुरुदारस्य । न ह्यनुदार 15 आपदो निहन्तीत्यनेन पदेन उदारत्वं विवक्षितम् ॥ जन्तुनेति । जन्तुमात्रेण अदात्रेत्यर्थः ॥ कृतस्नेहेन नादरः । दरो भयं च ।।
'हा धिग् 'इति । यस्यां रात्रौ कामिनी दृष्टा सा तामसी तमोमयी कृता। दिने तु सा न दृष्टा, तच्च दिनं प्रकाशमयं कल्पितम् ।। कुशले भद्रके कर्तव्ये । विधुरो वैरी ॥
20 - जोति । जानुनोरधस्ताज्जङ्घा । हरनृत्तमनुकतुं प्रवृत्ताया गौर्याचारीक्रमेषवः पादो दण्डपादः । विपूर्वो धान करणार्थ इति बिभ्रदित्यर्थेऽवाचकः। तथा समासोक्त्यैव दण्डपादस्याम्भोजतुल्यत्वेऽवगते यत् तस्याम्भोजशोभां विदधद इति तत् पुनरुक्तम् । यच्चाम्भोजस्यार्थमुपमानत्वमुपात्तं तदप्ययुक्तमेव, तस्योरुनालत्वादिधर्मसंबन्धोपगमयोग्यत्वानुपपत्तेः । केवलमेकेनैव समासान्तर्भावाद् 52 . वापोसंभूतत्वेनास्य विशेषणविशेष्यभावः संगच्छते, किं तु समास एव वक्ष्यमाणनयेनानुपपन्न इव प्रकमभङ्गप्रसङ्गात् । न च दण्डपादस्य तत्संबन्धो घटिष्यते इति शक्यते वक्तुं, तस्य तद्धर्मसंबन्धाभावात् । तेनाम्भोजस्य शाब्दमुपमा" नत्वं वा दण्डपादस्य वाम्भोजत्वेन रूपणं कर्तव्यं, येन अस्य प्राधान्ये सति