SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११४ काव्यादर्शनाम संकेतसमेत: [ ७ स० उल्लासः ] अत्र हन्तीति गमनार्थम् ॥ निहतार्थ यदुभयार्थमसिद्धेऽर्थे प्रयुक्तं यथायावकरसार्द्रपादमहारशोणितकंचेन दयितेन । मुग्धा साध्वसतरला विलोक्य परिरभ्य चुम्बिता सहसा ॥ १४६ ॥ अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्जवली कृतत्वरूपोऽर्थी व्यवधीयते । अनुचितार्थं यथा तपस्विमिर्या सुचिरेण लभ्यते प्रयन्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ॥ १४७॥ अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् । निरर्थकं पादपूरणमात्र प्रयोजनं चादिपदम् । यथाउत्फुल्लकमल के सरपराग गौरयुते मम हि गौरि । अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ॥ १४८ ॥ हिशब्दः । 5 10 अवाचकं यथा 15 वाचक इति मन्यमानः प्रयुञ्जीत, 'व्युत्पत्तिर्यस्य नास्ति 'इति वचनात् । सव्युत्पत्तिकं कदाचित् प्रयोज्यम्, यथा दूर्वायां छिन्नोद्भवा - शब्दः, ताले भूमिपिशाचः, शर्वे महानटः, चन्द्रामृतयोः समुद्रनवनीतं, जले मेघक्षीरमित्यादि ॥ गमनार्थमिति । गत्यर्थेऽपि ' हन्ति ' इत्युक्ते हिनस्तीति प्रतीयते, न तु गत्यर्थः । गत्युपदेशस्तु हंसार्थः । ' हन्ति गच्छत्याशासु ' इति । यमकादौ तु 20 गत्यर्थीsपि दृश्यते ॥ निहतार्थमिति । असमर्थे दोषे एकस्मिन्नेवार्थे प्रसिद्धि:, अत्र तूभयत्रापि प्रसिद्धिः, परमेकत्र विशिष्टेत्यनयोर्भेदः ॥ 'सत्रिभिः ' इति, यागयुक्तैः ॥ 4 'उत्फुल्ले 'ति अत्रैकवचनेन भगवतीं संबोध्य प्रसाद संबन्धेन यस्तस्यां 25 बहुत्वनिर्देशः स वचनप्रक्रमभङ्गेऽपि । तथा उत्फुल्ल के सरगौरशब्दानां पौनरुक्त्यं च । यथा 'कटस्थलप्रोषितदानवारिभिः । ' अत्र हि दानवारिप्रवासस्य यत्कटस्थलमवधिभावेन विशेषणं तत्पुनरुक्तमव्यभिचारात् ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy