________________
[१५० उल्लासः ] काव्यप्रकाशः।
ते दृष्टिमात्रपतिता अपि कस्य नात्र
शोभाय पक्ष्मशामलकाः खलाथ। नीचाः सदेव सविलासमलीकलमा
ये कालतां कुटिलतां च न संत्यजन्ति ॥१४१॥ यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतयाँ रसपर्यवसानं तथापि स्फुटस्य रसस्यानुपळम्भादव्यङ्गयमेतत्काव्यद्वयमुक्तम् । अत्र च शब्दार्थालंकारभेदाद् बहवो भेदाः । ते चालंकारनिर्णये निर्णेष्यन्ते ।।
काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम
षष्ठ उल्लासः ॥६॥
5
-
10
ते दृष्टीति । अत्र 'अलकाः खला इव 'इति भन्दश्लेषपतिभोत्पत्तिहेतुरुपमा ॥ उद्भटस्तु ' उपमापतिभोत्पत्तिहेतुर्थश्लेष एवायं " स्वयं च पल्लवाताम्रा "इत्यादाविव ' इत्याह तदने निराकरिष्यते ॥
ननु, यत्र वस्त्वलंकारान्तरं वा व्यायं नास्ति स नाम कल्यता चित्रस्य विषयः। यत्र तु न रसादिसंभवः स काव्यप्रकारो नास्त्येव, यस्माद 15 अवस्तुसंस्पर्शि काव्यं तावन्नोपपद्यते । वस्तु च सर्वमवश्यं कस्यचिद् रसस्य भावस्य वाङ्गत्वं पतिपद्यते, अन्ततो विभावत्वेन । चित्तवृत्तिविशेषा हिरसादयः। न च तदस्ति वस्तु यन्न कंचित् पित्तवृत्तिविशेषमुपजनयति, तदनुत्पादने कविविषयतैव न स्यादित्याशङ्कयाह-यद्यपीति ॥ अत्र चेति । सौन्दर्यादिनिधानभूतशब्दार्थाश्रये व्यायरहिते चित्रे काव्ये ॥ [इति भट्टसोमेश्वरविरचिते] काव्यादर्श [काव्यप्रकाशसंकेते]
षष्ठ उल्लासः ॥
20