________________
काव्यादर्शनामसंकेतसमेतः
अथ सप्तम उल्लासः ।
starraai निरूप्य दोषाणां सामान्यलक्षणमाहमुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः । उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ ४९ ॥ इतिरपकर्षः । शब्दाद्या- इत्याश्रग्रहणाद्वर्णरचने । विशेषलक्षणमाह
११२
[ ७ स० उल्लासः ]
दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम् ||५०|| संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत्क्लिष्टम् । अविमृष्टविधेयांश विरुद्धमतिकृत्समासगतमेव ॥ ५१ ॥
श्रुतिकटु परुषवर्णरूपं दुष्टं यथा
अनङ्गमङ्गळगृहापात्रे भक्तिरङ्गितैः ।
आळितिः स तन्वङ्गया कार्तार्थ्यं लभते कदा ॥ १४२॥ अत्र कार्तार्थ्यमिति ।
कक्षितया ॥
5
10
15
मुख्यार्थैति । मुख्यतया रस एवोक्तरूपः काव्यवाक्यानामर्थं इति स एव मुख्यः, तदाधारत्वाद् वाच्यार्थोऽपि मुख्यः । उभयोपयोगिनः शब्दाद्या रसस्यार्थस्य चोपकारकाः । स इति दोषः । रसस्यापकर्षहेतवो दोषाः । एवं गुणा अपि रसस्योत्कर्षतव इति वक्ष्यते । दोषगुणाश्च रसस्यैव धर्मा उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते, रसाश्रयत्वं च गुणदोष योरन्वयव्यतिरेकानुविधानात् । तथा हि यत्रव दोषास्तत्रैव गुणा रसविशेषे च दोषा, न तु शब्दार्थयोः । यदि हि तयोः स्युस्तद्वीभत्सादौ कष्टत्वादयो गुणा न भवेयुइस्यादौ चानीलत्वादयः । अनित्याश्चैते दोषा, यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः । निर्दोषे गुणाभिधानमुपपन्नमिति पूर्वं परिहार्यत्वेन दोषा बाच्यास्तत्र पदारब्धत्वाद् वाक्यस्येति प्रथमं षोडश पदस्य दोषानाह - दुष्टमिति ॥
20
अनङ्गमङ्गलग्रहं चासौ अपाङ्गश्च तस्य भङ्गया विच्छित्या तरङ्गितैरुप
25