________________
काव्यादर्शनामसंकेतसमेतः [६५० उल्लास.]
अथ षष्ठ उल्लासः। शब्दार्थचित्रं यत्पूर्व काव्यत्यमुदाहृतम् । गुणप्राधान्यतस्तत्र स्थितिः शब्दार्थचित्रयोः ॥४८॥
न तु शब्दचित्रेऽर्थस्याचित्रत्वम् । अर्थचित्रे वा शब्दस्य । तथा चोक्तम्
रूपकादिरलंकारस्तस्यान्यैर्षहुधोदितः । न कान्तमपि निर्भूषं विभाति वनिताननम् ।। रूपकादिमलंकारं बाह्यमाचक्षते परे । मुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥ तदेतदाहुः सौशब्धं नार्थव्युत्पत्तिरीहशी।
शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नै ।। इति । शब्दचित्रं यथाप्रयममरुणच्छायस्तावत्ततः कनकप्रभ
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ॥ उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसविसिनीकन्दच्छेदच्छविमंगलान्छनः ॥१४०॥ अर्थचित्रं यथा
शब्दार्थचित्रमिति । शब्दार्थवैचित्र्यमानं व्यङ्गयरहितमवरं कान्यं यत् प्रथमोल्लासे उदाहरणद्वयेन दर्शितं, तत्र न शब्दस्यैव केवलस्य रमणीयतया काव्यत्वं नाप्यर्थस्य केवलस्य, किं तु द्वयोरपि प्रधानगुणभावेनेति विशेषमाह-न तु 20 शब्देति ॥ एतदेव भामहोक्तेनाह-रूपकादिः' इति ॥ तस्येति काव्यस्य ।। 'बाह्य 'मिति काव्यस्वरूपासमवायिनम् ।। 'परे' शब्दालंकारैकान्तवादिनः ॥ 'सुपा'मिति । मुप्तिङन्तानां पदानां विचित्रतया भङ्गयन्तरेणानुमासादिनोत्पत्तिनिबन्धनम् । शब्दालंकारा एव काव्यस्वरूपसमवायिनोऽन्तरता इत्यर्थः ॥ नार्थेति । न चास्मिन्नर्थवैचित्र्यचारुत्वमन्तर्भवति । ततोऽस्माकं शब्दालंकारा 25 अर्थालङ्गाराश्चेष्टाः॥
प्रथममिति । अत्रानुपासे शशिनोऽरुणादिसाम्यसमन्वयादर्थस्यापि चित्रत्वम् ॥