________________
१०८
काव्यादर्शनामसंकेतसमेतः
[ ५ प्र० उल्लासः ]
नित्वेन च त्रिरूपालिङ्गलिङ्गिनि ज्ञानमनुमानं यत्तद्रूपः पर्यव
स्यति । तथा हि
भम धम्मि वीथो सो सुणओ अज्ज मारिओ तेण । गोलाणइकच्छकुडङ्गवासिणा दरिअसोहेण ।। १३९ ।।
अत्र गृहे श्वनिवृत्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलभ्रमणमनुमापयति । यद्यद्भीरुभ्रमणं तचद्भयकारण निहन्युपलब्धिपूर्वकम् । गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः ।
5
180
1
अत्रोच्यते - भीरुरपि गुरोः प्रभोर्चा " निदेशेन प्रियानुरागेमान्येन चैव भूतेन हेतुना सत्यपि मयकारणे भ्रमतीत्यनैकान्तिको हेतुः । श्रुनो बिभ्यदपि वी त्वेन सिंहान बिभेतीति विरुद्धोऽपि । व्यञ्जकमावः प्रतिबन्धेऽव्यभिचारे एव स्यादिति व्याप्तिः, यथा अग्निरत्र धूमाद्' इति ॥ नियतधर्मिनिष्ठत्वेनेति । अनेन अन्वयव्यतिरेकप्रतिपादन सपक्षसच्चविपक्षास भणमित्यर्थः ॥ त्रिरूपादिति । पक्षधर्मः, सपक्षसत्यं, विपक्षाद् यादृचिर्सित त्रिरूपं लिङ्गम् । येन लीनोऽर्थो गम्यते प्रतिपाद्यते तलिङ्गं 15 बौद्धानाम् । लिङ्गिनीति अनुमेये । तद्रूप इति । पर्यवसाने अनुमानरूप एव व्यङ्ग्यव्यञ्जकभाव इत्यर्थः । एतदेवोदाहरणेन द्रढयति - भमेति । प्रथमोल्लासे व्याकृता । सिंहस्य चेभकुम्भनिर्भेद हे वाकिनः श्ववधाभिधानं जातिविरुद्धमित्यनुचितम् । ततो ' दरिअ - रिक्खेण 'इत्यन्ये पठन्ति ॥ गृह इति । यत्र गृहे सा दुःशीला विद्यते || भ्रमणमिति । भ्रमणविधिर्वाच्यस्य, तत्प्रतिषेधस्तु अनुमेय: | 20 तत्र ' गोलाइ - कच्छकुडङ्गवासिणा ' इति गोदावरीच्छकुहरस्य धर्मित्वनिर्देश: ॥ ' दरिअसीहेण 'इति श्वमारणकारणाभिधानद्वारेणोपासस्य हतसिंह सद्भावस्य हेतुभावः ।। 'कुडङ्गवासिणा ' इति तद्विशेषणेन तस्य धर्मिणि सद्भावोपदर्शनम् || यद्यदिति । भयकारणनिवृत्तिर्व्यापिका, भीरुभ्रमणं व्याप्यं, सिंहसद्भावश्च व्यापक विरुद्धोपलब्धिरेकादशविधानुपलम्भमध्येऽनुमानभेदः । यथा 'नात्र तुषारस्पर्शोऽग्नेः 'इति ॥ अत्र ' इति घर्मी, ' तुषारस्पर्शो न ' इति साध्यम्, वह्नेः इति हेतुर्व्यापक विरुद्धोपलब्धिः । तुषारस्पर्शः प्रतिषेध्यो व्याप्यो व्यापकच शीतस्पर्शः ।
25
"
"
अत्रेति पूर्वपक्षे, उच्यत इति सिद्धान्तः ॥ अनैकान्तिक इति सव्यभिचारः ॥
10