________________
5
१०६
काव्यादर्शनामसंकेतसमेतः [५ ५० उल्लासः'] तत्कयमत्र · लक्षणा । लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम् । यथा च समयसव्यपेक्षाभिधा तथा मुख्यार्थवाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा । अत एवाभिधापुच्छभूता सेत्याहुः।
न च लक्षणात्मकमेव ध्वननम् , तदनुगमेन तस्य दर्शनात् । न च तदनुगतमेव, अभिधावलम्बनेऽपि तस्य भावात् । न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः। न च शब्दानुसार्येव, अशब्दात्मकनेत्रत्रिमागावलोकनादिगतत्वेनापि तस्य सिद्धरित्यभिधातात्पर्यलक्षणात्मकव्यापारत्रयाविवर्ती ध्वननादिपर्यायो व्यापारोऽनपहवनीय एव ।
10. लक्षणां विनापि व्यञ्जकत्वमित्याह-न चेति । गाथेयं तृतीयोल्लासे व्याकृता ॥ अभिधापुच्छभूतेति । अमुख्यया वृत्या संकेतग्रहणमपि तत्रास्तीत्यभिधाशेषभूतैव लक्षणा ततोऽभिधान्यापारमाश्रिता, तबाधेनोत्थानात् कथं ध्वनेय॑अनात्मनो लक्षणं स्याद्, भिमविषयत्वात् ॥
__न च लक्षणेति । न हि लक्षणैकरूपमेव ध्वननं लक्षणानुगमेन ध्वननस्य 15 दर्शनात् । यथा 'गङ्गायां घोषः' इत्यादौ ॥ न च लक्षणानुगतमेव ध्वननं, विवक्षितान्यपरवाच्येऽभिधामूलत्वेन ध्वननस्य भावात् । न हि व्यङ्गये प्रतीयमाने वाच्ये बुद्धिर्दरीभवति ।। न चोभयेति ॥ अभिधालक्षणानुसारेणैव ध्वननमित्यपि नेत्याह-अवाचकेति । ललितपरुषादिवर्णानुमासस्याभिधानानुपयो. गिनोऽपि रसं प्रति व्यञ्जकत्वस्य दर्शनात् ॥ न च वर्णमात्रानुसारेणैव ध्वनन- 20 मित्याह-अशब्दात्मकेति,अभिधान्यापारेणास्पृष्ट इत्यर्थः ।। यथा-'मय्यासक्तचकितहरिणीहारिनेत्रत्रिभागः'। अत्र गुरुजनमवधीर्यापि यथातथा साभिलाषगर्वमन्थरं विलोकितवतीति स्मरणे विपलम्भोद्दीपनम् । अवलोकनादि' इत्यादिशब्दाच्छब्दव्यतिरिक्ताधीवक्त्रत्वकुचकम्पनबाष्पावेशादि ॥ तस्येति ध्वननस्य ।। ध्वननादिपर्याय इति । अस्ति तावच्छब्दस्य व्यापारः। स च नाभिधानात्मा, 25 समयाभावात् । न तात्पर्यात्मा, तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा, स्खलद्गतित्वाभावात् । तत्रापि स्खलद्गतित्वे पुनर्मुख्यार्थवाधानिमित्तं प्रयोजनमित्यनवस्था स्यात् । तस्माद् अभिधान्यापारव्यतिरिक्तश्चतुर्थोऽसौ व्यापारो ध्वननयोतनप्रत्यायनावगमनादिपर्यायोऽभ्युपगन्तव्य एव ।